________________
-ॐ नमः सर्वज्ञाय - - श्री शंखेश्वर-पार्श्वनाथाय नमः -
- श्री संभवनाथाय नमः - याकिनीमहत्तरासूनु-सूरिपुरंदर-परमसत्यप्रियेभ्यः १४४४ ग्रंथानां रचयितृभ्यः परमपूज्य-आचार्य श्री
हरिभद्रसूरिवरेभ्यो नमः आत्मकमललब्धिभुवनतिलकसूरीश्वरेभ्यो नमः
श्रीमम्मुनिचन्द्रसूरिविरचितपञ्जिकायुता. श्री हरिभद्रसूरिपुरन्दरदृब्धा, श्रीमद्विजय-भद्रंकर. सूरिकृत-भद्रंकरी-टीका-सहिता-:
• ललितविस्तराख्या चैत्यस्तववृत्तिः ७०
सूत्रकार-मंगलाचरणम् - प्रणम्य भुवनालोकं, महावीरं जिनोत्तमम् ।
चैत्यवन्दनसूत्रस्य, . व्याख्येयमभिधीयते ॥१॥ अनन्तगमपर्याय, . . सर्वमेव जिनागमे ।
... सूत्रं यतोऽस्य कात्स्येन, व्याख्यां कः कर्तुं मीश्वरः ॥२॥ यावत्तथापि विज्ञातमर्थजातं मया गुरोः ।
: सकाशादल्पमतिना, तावदेव ब्रवीम्यहम् ॥३॥ ये सत्त्वाः कर्मवशतो, मत्तोऽपि जडबुद्धयः ।। तेषां हिताय गदतः, सफलो मे परिश्रमः ॥४॥
(इति)