________________
ललितविस्तरा-सटीका टी०......तस्मात् कारणाद्, एतबहुमान-विधिपरत्व-उचितवृत्तित्व-विशिष्टकर्मक्षयादिविशिष्टा, एतेऽधिकारिणः -परार्थप्रवृत्त:-परार्थप्रवृत्तिरूपव्याख्यानप्रवृत्त:-व्याख्यातृवरिष्ठः, लिङगत:-वक्ष्य-" माणलिङगैरवसेया:-ज्ञेयाः, यतोऽनधिकारिणां चैत्यवंदनपाठादिप्रयोगे दोषो माऽभूद् एषामधिकारिणां सथामा लिङमामि-उपलक्षकचिह नानि यथा तत्कथाप्रीत्यादीनि, विशिष्टकर्मक्षयप्रयोज्यानामेतद्बहुमान्यादीनां क्रमेणकैकस्य पंच पंच लिंगान्युच्यन्ते. एतद्बहुमानिनोऽधिकारिणः पंच लिंगानि = (१) तत्कथाप्रीतिः = चैत्यवंदनसूत्रतदाराधकानां कथायां प्रीतिः-प्रेम, प्रस्तुतधर्मकपनरूप-कथां प्रति प्रीतिरप्रतिमा, (आनंदाऽभिव्यञ्जव प्रीणनं,) तदेतत्प्रेम, बहुमानगमकं लिंगम्. (२) निन्दाऽश्रवणम् = चैत्यवंदनादिसूत्रस्य तथा प्रस्तुतधर्माराधकानां प्रतिपक्षिकृत-निन्दाया अश्रवणम् यतो मनागपि निन्दाश्रवणे तत्प्रति रुचिभङगः स्यात्, तदेतद्बहुमानगमकं लिङ्गम्. (३) तदनुकम्पा = तेषु चैत्यवंदनादि-धर्मनिन्दकेषु अनुकंपा-दया, यथा-अहो कष्टं यदेते तपस्विनो (चराकाः) राजसीतामसीवृत्तिभ्यामावेष्टिता-विवशा हितेषु मूढा इत्थमनिष्टमाचेष्टन्ते-आचक्षते इति, दयातो 'धर्मनिन्दा' पश्चाद्रुद्धा भवति, धर्मनिन्दकेषु दयारूपकार्य तद्-बहुमानजन्यत्वेन बहुमानगमकं लिङ्गम्. (४) चेतसो न्यास इति अभिलाषाऽतिरेकाच्चैत्यवंदन एव पुनः पुनर्मनसः स्थापनं, चित्तसमर्पणेन तत्प्रति सर्वस्वं दत्तं, तदेतद्बहुमानगमकं लिङ्गम्. (५) परा जिज्ञासा = परा-विशेषवती, उत्तरोत्तरवर्धमाना चैत्यवंदनस्यैव जिज्ञासा ज्ञातुमिच्छा, सर्वोत्कृष्ट-ज्ञानेच्छया तत्साधनोत्कृष्टा भवति. एवमेतद् बहुमानसाध्यत्वेन बहुमानगमकं लिंगम्. तथा विधि-पररूपाधिकारिणः पंच लिंगानि(१) गुरुविनयः = गुरूणां विनयः = मातुः पितुश्च विनयः, ज्ञानादिधर्मगुरुं प्रति उचितप्रतिपत्तिरूपसेवादिविनयः, धर्मश्रवणादि-सर्वधार्मिक क्रियादिषु क्रियमाणो विधितो विनयः, स विधिपरतागमकोऽस्ति, ततो विधिपरतालिंगमिदम्.. (२) सत्कालापेक्षा = सन्ध्यात्रय-प्रातमध्याह नसायंकालरूपसुन्दरकालाश्रयणं, तथा प्रस्तुतचैत्यवंदनादि-श्रवणग्रहणादिसर्वधर्मक्रियासु सत्कालो-योग्यकालोऽपेक्षितव्यो, या क्रिया, यत्काले कर्तव्यत्वेन शास्त्रेण विहितत्वेन निर्धारिता तत्कालमनतिक्रम्य कार्या, अर्थादेतविधिपरतालिंगं ज्ञेयम्. (३) उचितासनम् = चैत्यवंदनादिसर्वधर्मक्रियासु समुचितासनं सेवनीयम्, तदेतद् विधिपरता गमयति. (४) युक्तस्वरता = परयोगानुपघातिस्वरता = स्वतो भिन्ना अन्ये ये चैत्यवंदनगत-स्तुति-स्तवनादि-क्रियासु प्रवृत्तास्तेषां स्व-स्वयोगे बाधा माऽभूत्तया रीत्या युक्तस्वरता = स्वरोच्चारो नातिमन्दोऽपि नात्युच्चैरपि तु मध्यमशब्दतया कर्त्तव्य इति विधिपरतां द्योतयति.
14