________________
१६७
ललितविस्तरासंस्कृत टीका
यथा, यदाप्तपुरुषकथनानुसारेण मंत्रतंत्रादिकं क्रियते, स एतस्योद्देश्यभूतविषयमजानानोपि कर्म-कर्त्तः फलं साधयन् वर्त्तते यथा स्तोभनस्तम्भनादि कर्म, तथैतं वैयावृत्त्यकारिणमुद्दिश्य क्रियमाणा कायोत्सर्ग-क्रिया, कायोत्सर्गकर्तः फलं कथं नोत्पादयेत् ! उत्पादयेदेव,
कायोत्सर्गकर्तः फलतो वैयावृत्त्यकारिणो वैयावृत्त्ये प्रकृष्टोत्साहो वर्त्तते-वर्धते च,
अत्रेदं हार्द ज्ञेयम् =सदा नियमत औचित्येन शोभमानप्रवृत्तिपूर्वकं 'औचित्त्यप्रवृत्त्या सर्वत्र प्रवर्तितव्यम्' इति न्यायेन प्रवृत्तिः कार्या इति हेतुना वैयावृत्त्यकरादि-विषयककायोत्सर्गरूपैव ।
क्रिया, सकलयोगस्य (उत्तरोत्तर-गुणवृद्धः) बीजं ज्ञेयम् । किञ्च वंदणवत्तियाए' इति पदत आरभ्य 'ठामि काउसग्ग' यावत्पाठोऽत्र नो समुच्यते, परन्तु 'अन्नत्थ उससिएणं' इत्यादि पाठो निगद्यते, यतरते वैयावृत्त्यकराः शासनस्य देवाश्च देव्यश्च, अविरतिमन्तो भवन्ति, सामान्य प्रवृत्तितः, एवमेवोपकारो दृष्टोऽस्ति, तस्मिन्नेव च प्रकृतसूत्ररूपवचनस्य प्रामाण्यमस्ति, एवं 'सिद्धाणं बुद्धाणं' रूप-सूत्र -सिद्ध-स्तवनामकसूत्रस्य व्याख्या समाप्तेति । -अथ शास्त्रकारोऽवतरणिकासहितं 'जयवीयराय.'-प्रणिधानसूत्रम् व्याख्यानयति
___पुनः संवेगभावितमतयो विधिनोपविश्य पूर्ववत् प्रणिपातदण्डकादि पठित्वा स्तोत्रपाठपूर्वकं ततः सकलयोगाक्षेपाय प्रणिधानं करोति कुर्वन्ति वा, मुक्ताशुक्क्या उक्तं च-"पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए ।
वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥१॥ दो जाणू दोण्णि करा, पंचमगं होइ उत्तमंगं तु । समं संपणिवाओ, णेओ पंचंगपणिवाओ ॥ २॥ अण्णोण्णंतरियंगुलिकोसागारेहिँ दाहिं हत्थेहिं । पेट्टोवरिकोप्परसंठिएहि तह जोगमुद्दनि ॥३॥ चत्तारि. अंगुलाई, पुरओ ऊणाइँ जत्थ पच्छिमओ । पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥४॥