________________
ललितविस्तरासंस्कृतटीका -शान्तिकर-सम्यग्दृष्टि-समाधिकररूपं विषयं गृहीत्वा, एतानाश्रित्य करोमि, कायोत्सर्गमिति, कायोत्सर्गविस्तरः पूर्ववत्,
किश्चात्र वैशिष्टयमिदं यत् -स्तुतिश्चैषां वैयावृत्त्यकराणां (अत्र वृद्धसम्प्रदायः–वैयावृत्त्यकरनामक-शब्देनाऽम्बिका-चक्रेश्वरी-अप्रति-चक्रादि-शासनदेव्यः,तथा जैनशासनाऽधिष्ठायकरक्षक-गोमुखादि-यक्षादि शासनदेवा गृह्यन्ते.)
___ यतो यत्सत्कः कायोत्सर्गः, तत्सत्का स्तुतिर्गीयते, तथा तद्भाववृद्धरित्युक्तप्राय-तथाप्रकारकभावस्य वृद्धिप्रकर्षों भवति.
तथा च तेषां वैयावृत्त्यकरादीनां स्वविषयककायोत्सर्गस्य, अपरिज्ञाने (अपरिज्ञातत्वे) अस्माद् वैयावृत्त्यकरादिरूपविषय-विषयक-कायोत्सर्गतः कायोत्सर्गकर्तुः, विध्नशान्तिपुण्यवन्धादिरूपशुभफलसिद्धौ, इदमेव कायोत्सर्ग-प्रवर्तकं “वैयावच्चगराणं संतिगराणं सम्मद्दिछिसमाहिगराणं करेमि काउस/गं "इति वचनं ज्ञापकं-गमकं, आप्तोपदिष्टत्वेनाव्यभिचारित्वात्फलावश्चकत्वेन गमकम् ।
एतेन वचनेन शुभसिद्धिलक्षणं वस्तु, अन्येन प्रमाणेनासिद्धं-अप्रतिष्ठितं नास्ति, सिद्धमस्ति,
एतद्वस्तु दृष्टान्तेन ज्ञापयति, 'आभिचारुकादौ' दृष्टान्तधर्मिणि आभिचारुके स्तोभनस्तम्भन-मोहनादि-फले कर्मणि, आदिशब्दात् , शान्तिकपौष्टिकादिशुभफलकर्मणि च 'तथेक्षणात् ' स्तोभनीय-स्तम्भनीय-मोहनीयादिभिरविज्ञानेऽपि, आप्तोपदेशेन स्तोभनादि-कर्म-कर्त्तरिष्टफलस्य स्तम्भनादेः प्रत्यक्षानुमानाभ्यां दर्शनात् प्रयोगो यदाप्तोपदेशपूर्वकं कर्म, तद्विषयेणाऽज्ञातमपि कर्तुरिष्टफलकारि भवति, यथा स्तोभनस्तम्भनादि कर्म, तथा चेदं वैयावृत्त्यकरादि-विषयक कायोत्सर्ग-करणमिति.
अर्थात् - कायोत्सर्गकर्तः, एतद्, शुभत्वेन विघ्नोपशमपुण्यबन्धादिः प्राप्तो भवति, इदं फलं प्रतिष्ठितमेव यतोऽभिचारप्रयोगादौ स्तोमन-स्तम्भनमोहनादिमंत्रतंत्रप्रयोगे एवं भवतीति दृश्यते तथा शान्ति-पौष्टिक-सात्त्विक-शुभफलकं कर्माऽपि, एवं भवद् दृश्यते, तत्र यमुद्दिश्य एष प्रयोगः क्रियते, स एतं प्रयोगं किञ्चिदपि न जानाति परन्तु, एषा व्यक्तिः, स्तोमनस्तम्भन-मोहनाकर्षण-शमनानुकूलतावती भवति, एतादृशी, नियत-मंत्रतंत्रादिविषयक-साधना, मार्गदर्शकाप्तपुरुषकथनानुसारेण समीचीनसाधनाकरणेन, साऽज्ञानवती, व्यक्तिरपि जानाति, स्तोमनादिकं प्राप्यते,