________________
ललितविस्तरासंस्कृतटीका
१५७ संक्ले शरूपस्याभावात् स्त्रीणां 'षष्ठीं च स्त्रियः' इति वचनात् तद्वत्प्रकृतरौद्रध्यानस्येव प्रकृष्टस्य मोक्षहेतोः शुभध्यानस्य शुक्लरूपस्याभाव इति ।।
एवं चेदभ्युपगमो भवतः, अस्य परिहारमाह-'न' नैवैतत्परोक्तं, कुत इत्याह-'तेन' प्रकृतरौद्रध्यानेन 'तस्य' प्रकृतशुभध्यानस्य 'प्रतिबन्धाभावाद्' अविनाभावायोगात् , प्रतिबन्धसिद्धौ हि व्यापककारणयोर्वक्षत्वधूमध्वजयोनिवृत्तौ शिंशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृष्टशुभध्यानाभाव उपन्यसितुं युक्तो, न चास्ति प्रतिबन्धः, कुत इत्याह-'तत्फलवत्' तस्य-प्रकृष्टशुभध्यानस्य फलं-मुक्तिगमनं तस्येव 'इतरफलभावेन' प्रकृतरौद्रध्यानफलस्य-सप्तमनरकगमनलक्षणस्य भावेन-युगपत्सत्तया 'अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्यानिष्टस्य प्रसङ्गात् , प्रतिबन्धसिद्धौ हि शिंशपात्वे इव वृक्षत्वं धूम इव वा धूमध्वजः प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्यकारी, स्वकार्यकारित्वाद्वस्तुनः, स्वकार्यमाक्षिपत्कथमिव परमपुरुषार्थ नोपहन्यादिति,
'श्रेणीत्यादि' श्रेणिपरिणतौ तु-क्षपकश्रेणिपरिणामे पुनः वेदमाहनीयक्षयोत्तरकालं 'कालगर्भवत्' काले-ऋतुप्रवृत्त्युचिते उदरसत्त्व इव 'भावतो' द्वादशाङ्गार्थोपयोगरूपात् न तु शब्दतोऽपि 'भावः' सत्ता द्वादशाङ्गस्य 'अविरुद्धो' न दोषवान् , इदमत्र हृदयम्-अस्ति हि खीणामपि प्रकृतयुक्त्या केवलप्राप्तिः शुक्लध्यानसाध्यं च तत् , ' ध्यानान्तरिकायां शुक्लाघभेदद्वयावसान उत्तरभेदद्वयानारम्भरूपायां वर्तमानस्य केवलमुत्पद्यते' इति वचनप्रामाण्यात् , न च पूर्वगतमन्तरेण शुक्लध्यानाद्यभेदौ स्तः ‘आद्ये पूर्वविदः (तत्त्वार्थे अ०९ सूत्रम् ३९) इति वचनात्, दृष्टिवादनिषेधश्च 'स्त्रीणा' मितिवचनात् , अतस्तदर्थोपयोगरूपः क्षपकश्रेणिपरिणतौ स्त्रीणां द्वादशाङ्गभावः क्षयोपशमविशेषाददुष्ट इति ॥
टी०....स्त्री अजीवो नास्त्येव, यत एवं कथयितुं शक्यते, 'अजीवस्य मोक्षो न भवेत्', किन्तु जीव एव यतो जीवस्य लक्षणं चैतन्यमस्यां विद्यते, किञ्च जीव उत्तमचारित्र-धर्मसाधिकाऽस्ति, तत्साधनेन कश्चिद्विरोधो नास्ति । यतः,जीवेषूत्तमधर्मसाधकता दृश्यत एव.
शङ्का-जीवा अपि सर्व एव, उत्तमधर्मसाधका न भवन्ति यतो जीवत्वेन सहोत्तमधर्मसाधकताया नियमोऽवश्यं भावः कथयितुं न शक्यते, अभव्येष्वेवेतस्य नियमस्य व्यभिचारःअसंभवोऽघटनं वर्तते, सत्यपि जीवत्वे तत्रोत्तमधर्मसाधकता नास्त्येव, ततः स्त्री जीवोऽस्ति, एतावन्मात्रेणोत्तमधर्मसाधिकाऽस्ति एवं कथं कथ्यते !
समाधानम् =जीवत्वेन सह नियमो नास्ति यतोऽभव्या जीवाः सन्ति तथापि ते, उत्तमधर्मसाधका न भवन्त्येव, एतत्सत्यं परन्तु स्त्री अभव्यत्वजातिमत्येव नास्ति, काचित् स्त्री अभव्याऽपि भवेत्, तथापि सर्वाः स्त्रियः अभव्या एव सन्ति, एवं नास्ति, काचित् स्त्री