________________
ललित विस्तरा संस्कृतटीका
दर्शनात, उपशान्तमोहाऽप्यशुद्धाचारा गर्हिता तत्प्रतिक्षेपायाह'नो न शुद्धाचारा' कदाचित् शुद्धाचाराऽपि भवति, औचित्येन परोपकरणानाद्याचारदर्शनात्, शुद्धाचाराऽप्यशुद्धबोन्दिरसाध्वी तदपनोदायाह - 'नो अशुद्धबोन्दि:' काचित् शुद्धतनुरपि भवति प्राक्क म्र्मानुवेधतः संसञ्जनाद्यदर्शनात् कक्षास्तनादिदेशेषु शुद्धबोन्दिर पि व्यवसायवर्जिता निन्दितैव तन्निरासायाह- 'नो व्यवसायवर्जिता ' काचित्परलोकव्यवसायिनी, शास्त्रात्तत्प्रवृत्तिदर्शनात् सव्यवसायाऽप्यपूर्वकरण विरोधिनी विरोधिन्येव तत्प्रतिषेधमाह-'ना अपूर्वकरणविरोधिनी अपूर्वकरणसम्भवस्य स्त्रीजातावपि प्रतिपादितत्वात्, अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये ( इति ) इष्टसिद्ध्यर्थमाह-'नो नवगुणस्थानरहिता ' तत्सम्भवस्य तस्याः प्रतिपादितत्वात् नवगुणस्थानसङ्गताऽपि लब्ध्ययोग्या अकारणमधिकृतविधेरित्येतत्प्रतिक्षेपायाह- 'नायोग्या लब्धेः ' आमर्षोषध्यादिरूपायाः, कालौचित्येनेदानीमपि दर्शनात् कथं द्वादशाङ्गप्रतिषेधः ?, तथाविधविग्रहे ततो दोषात् श्रेणिपरिणतौ तु कालगर्भवद्भावतो भावाऽविरुद्ध एव लब्धियोग्याऽप्यकल्याणभाजनोपघातान्नाभिलषितार्थसाधनायालमित्यत आह- 'नाकल्याणभाजनं' तीर्थकरजननात्, नातः परं कल्याणमस्ति यत एवमतः कथं नोत्तमधर्म्मसाधिकेति, उत्तमधर्म्मसाधिकैव ।
"
"
१५६
"
अनेन तत्तत्कालापेक्षयेतावद्गुणसम्पत्समन्वितैवोत्तमधर्म्मसाधिकेति विद्वांसः, केवलसाधकश्चायं सति च केवले नियमान्मोक्षप्राप्तिरित्युक्तमानुषङ्गिकं तस्मान्नमस्कारः कार्य इति ।
"
पं...' सप्तमेत्यादि ' सप्तमनरकेऽतिक्लिष्टस स्वस्थाने आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्र