________________
ललितविस्तगसंस्कृतटोका मोहा णो ण सुद्धाचारा, णो असुद्धबोंदी, णो ववसायवजिया, णो अपुवकरणविरोहिणी, णो णवगुणठाणरहिया, णो अजोगा लद्धिए, णो अकल्लाणभायणंति कहं न उत्तमधम्मसाहिग” त्ति । तत्र 'न खल्विति' नैव स्त्री अजीवो वर्त्तते, किन्तु ! जीव एव, जीवस्य चोत्तमधर्मसाधकत्वाविरोधस्तथादर्शनात् , न जीवोऽपि सर्व उत्तमधर्मसाधको भवति, अभव्येन व्यभिचारात् , तद्वयपोहायाह-'न चाप्यभव्या' जातिप्रतिषेधोऽयं, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेदनिर्वाणधर्माद्वेषशुश्रूषादिदर्शनात् , भव्योऽपि कश्चिद्दर्शनविरोधो यो न सेत्स्यति तन्निरासायाह-'नो दर्शनविरोधिनी' दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपं, न तद्विरोधिन्येव, आस्तिक्यादिदर्शनात् , दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव तत्प्रतिषेधायाह-नो अमानुषी' मनुष्यजातौ भावात्, विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात् , मानुष्येऽप्यनार्योत्पत्तिरनिष्टा तदपनोदायाह-नो अनार्योत्पत्तिः' आर्येष्वप्युत्पत्तेः, तथादर्शनात् , आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृतसाधनायेत्येतदधिकृत्याह- 'नो असङ्खयेयायुः' सर्वैव, सङ्घयेयायुर्युक्ताया अपि भावात् , तथादर्शनात् , सङ्ख्ययायुपि अतिक्रूरमतिः प्रतिषिद्धा तन्निराचिकीर्षयाऽह-'नातिकरमतिः ' सप्तमनरकायुर्निबन्धनरौद्रध्यानाभावात् , तद्वत्प्रकृष्टशुभध्यानाभाव इति चेत् , न, तेन तस्य प्रतिबन्धाभावात्, तत्फलवदितरफलभावेनानिष्टप्रसङ्गात् ,
अक्रूरमतिरपि रतिलालसाऽसुन्दरैव तदपोहायाह-'नो न उपशान्तमोहा' काचित् उपशान्तमोहापि सम्भवति, तथा