________________
ललितविस्तरासंस्कृतटीका भव्याऽपि भवेत् तत्र भव्यत्वयोग्यसंसारनिर्वेद-निर्वाणधर्माद्वेष-शुश्रषादि दृश्यते एव, भव्योऽपि कश्चिद् दर्शनविरोधी यो न सेत्स्यतीति.
(सप्तमेत्यादि' सप्तमनरकेऽतिक्लिष्टसत्त्वस्थाने, आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्रसंक्लेशरूपस्याभावात् स्त्रीणां 'षष्ठी च स्त्रियः' इनि वचनात् , तद्वत् -प्रकृतरौद्रध्यानस्येव प्रकृष्टस्य मोक्षहेतोः शुभध्यानस्य शुक्लरूपस्याभाव इति ।
___ एवं चेदभ्युपगमो भवतः, अस्य परिहारमाह-'न' नैवेतत्परोक्तं, कुत इत्याह-'तेन'प्रकृतरौद्रध्यानेन 'तस्य' प्रकृतशुभध्यानस्य 'प्रतिवन्धाभावाद' अविनाभावाऽयोगात् , प्रतिबन्धसिद्धौ हि व्यापककारणयो- वृक्षत्वधूमध्वजयो निवृत्तौ शिशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृतशुभध्यानाभाव उपन्यसितुं युक्तो, न चास्ति प्रतिबन्धः, कुत इत्याह 'तत्फलवत्' तस्य प्रकृष्ट-शुभध्यानस्य फलं--मुक्तिगमनं, तस्येव 'इतरफलभावेन' प्रकृतरौद्रध्यानफलस्य सप्तमनरकगमनलक्षणस्य भावेन-युगपत्सत्तया अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्याऽनिष्टस्य प्रसङ्गात् , प्रतिबन्धसिद्धौ हि शिशपात्वे इव वृक्षत्वं धूम इव वा धूमध्वजः प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्यकारी, स्वकार्यकारित्वाद् वस्तुनः, स्वकार्यमाक्षिपत् कथमिव परमपुरुषार्थ नोपहन्यादिति,)
अर्थाद् , अनेन–पूर्वोक्तवचनराशिरूपवाक्येन, तत्तत् कालापेक्षया-स्वस्वकालमपेक्ष्य पूर्वोक्ता एतावन्तः-एतत्प्रमाणा ये गुणाः, तद्रूपसम्पत् -समन्वितैव स्त्री, उत्तमधर्मसाधिकेति विद्वांसो-ज्ञातारो वदन्ति ।
किञ्चैष, उत्तमो धर्मः केवलज्ञानसिद्धिकारकः सति च केवले केवलज्ञानसमवधाने, एव नियमतो मोक्षप्राप्तिरित्युक्तमानुषङ्गिक-प्रासङ्गिकम्,
यदा जिनवरवृषभवर्धमानस्वामिनं प्रति कृत एकोऽपि नमस्कारो नरं नारी वा भवसागरतः, तारयत्येव.
-अतो नरेण नार्या वा वर्धमानस्वामी नमस्कार्यः, सदा, इदं वाक्यं, स्तुतिअर्थवादरूपमस्ति, अथवा विधिवादरूपमस्ति ? इत्यस्य, आक्षेपपरिहारपूर्वकं सुंदरशैल्या विवेचनं विस्तारयति
आह-किमेष स्तुत्यर्थवादो यथा-'एकया पूर्णाहुत्या सर्वान् कामानवाप्नोती'ति, उत विधिवाद एव यथा-'अग्निहोत्रं जुहुयात् स्वर्गकाम' इति, किं चातः?, यद्याद्यः पक्षः ततो यथोक्तफल