________________
ललितविस्तरासंस्कृतटीका
अत एव संवेगामृतास्वादनं, नाविज्ञातगुणे चिन्तामणौ यत्नः, न चान्यथाऽतोऽपि समीहितसिद्धिः,
प्रकटमिदं प्रक्षापूर्वकारिणां,एकान्ताविषयो गोयोनिवर्गस्य, परमगर्भ एष योगशास्त्राणां, अभिहितमिदं तैस्तैश्चारुशब्दैर्मोक्षाध्वदुर्गग्रहणमिति कैश्चित् तमोग्रन्थिभेदानन्द इति चान्यैः गुहान्धकारालोककल्पमपरैः भवोदधिद्वीपस्थानं चान्यैरिति,
न चैतद्यथावदवबुध्यते महामिथ्यादृष्टिः, तद्भावाऽऽच्छादनात् , अहृदयवत्काव्यभावमिति, तत्प्रवृत्त्यायेव ह्यत्र सल्लिङ्ग, तद्भाववृद्धिश्च काव्यभावज्ञवत् , अत एव हि महामिथ्यादृष्टः प्राप्तिरप्यप्राप्तिः, तत्फलाभावात् , अभव्यचिन्तामणिप्राप्तिवत् , मिथ्यादृष्टेस्तु भवेद्रव्यप्राप्तिः साऽऽदरादिलिङ्गा अनाभोगवती, न त्वस्यास्थान एवाभिनिवेशः, भव्यत्वयोगात् ,
तच्चैवलक्षणं, प्राप्तं चैतदभव्यैरप्यसकृत् , वचनप्रामाण्यात्, न च ततः किञ्चित् , प्रस्तुतफललेशस्याप्यसिद्धेः, परिभावनोयमेतदागमज्ञैर्वचनानुसारेणेति। एवमन्येषामपि सूत्राणामों वेदितव्य इति, दिग्मात्रप्रदर्शनमेतत् , ___एवं प्रणिधानं कृत्वैतत्पूर्विका क्रियाफलायेति श्रुतस्यैव कायोत्सर्गसंपादनार्थं पठति पठन्ति वा “ सुयस्स भगवओ करेमि काउस्सग्ग" मित्यादि यावद्वोसिरामि, व्याख्या पूर्ववत्, नवरं श्रुतस्येति-प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य "भगवतः" समग्रेश्वर्यादियुक्तस्य,
शुद्धत्वेन समग्रेश्वर्यादियोगः, न ह्यतो विधिप्रवृत्तः फलेन