________________
१३०
ललितविस्तरासंस्कृतटीका किंमते जिनमते ! लोकनं लोकः, ज्ञानमेव, स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचिन्मनुष्यलोकमेव जगन्मन्यन्ते इत्यत आह 'त्रैलोक्यं मनुष्यासुरं' आधाराधेयरूपमित्यर्थः, ।
त्रैलोक्य-त्रिलोकी-मनुष्यादेराधारभूतो मध्यलोकः, सुरादेराधारभूतः-स्वर्गलोकः, असुरादेशधारभूतः पाताललोकः, अर्थान्मनुष्यादिराधेयमृतः, मध्यलोकादिराधारभृतः, आधाराधेयस्वरूपत्रैलोक्यरूपं जगद् यत्र ज्ञाने-श्रुतज्ञाने ज्ञेयत्वेन प्रतिष्ठितं-प्रतिष्ठां प्राप्तम् ।
अयमित्थम्भूतः श्रुतधर्मों वर्धतां-वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणमेतत् 'शाश्वतं वर्धतामित्यप्रच्युत्येति भावना,' सदा नित्यत्वेन, अविनाशित्वेनेत्यर्थः,
'देव' इत्यत्र वाक्यालङ्काराय-छन्दः-पूर्तये वा 'अनुस्वारःप्रयुक्तः,' विजयत:अनर्थप्रवृत्तपरवादि-विजयेनेति हृदयं, (श्रुतधर्माभिन्नजिनमतं शाश्वतं वर्धताम् ,
तथा ( यस्योत्तरे-फले, तदनन्तरं चारित्रधर्मोऽस्ति, एतादृशं श्रुतधाऽभिन्नं जिनमतं वर्धताम् , ज्ञानवृद्धिचारित्रवृद्धिद्वयं मिथोवृद्धि-अतिवृद्धि-सर्ववृद्धिकारणं ज्ञेयम् , तथापि चारित्रवृद्धि प्रति ज्ञानवृद्धिरवश्यं ज्ञेया, ज्ञानस्य फलं विरतिरिति प्रघोषोऽस्ति, यथा यथा ज्ञानवृद्धिस्तथा तथा चारित्रगतिवृद्धिः)
___ धर्मोतरं-(धर्मो तरं चारित्रधर्मस्य प्राधान्यं यथा भवति एवं वर्धतां ) चारित्रधर्मोत्तरं ( जिनमतं) वर्द्धतां, पुनर्वृद्धयभिधानं, 'मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थ,' तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं 'अपुव्वज्ञानग्रहणे' इति,
– अथ शास्त्रकारः श्रुतधर्मवृद्धिफलसिद्धिः, हेतुसिद्धिश्च दयते -
प्रणिधानमेतत् , अनाशंसाभावबीजं, मोक्षप्रतिबन्धेन, अप्रतिबन्ध एष प्रतिबन्धः, असङ्गफलसंवेदनात्,
यथोदितश्रुतधर्मवृद्धर्मोक्षः, सिद्धत्वेन, नेह फले व्यभिचारः, असङ्गेन चैतत्फलं संवेद्यते, एवं च सद्भावारोपणात्तवृद्धिः, शुभमेतदध्यवसानमत्यथै, - शालिबीजारोपणवच्छालिहेतुः, दृष्टा ह्येवं पौनःपुन्येन तद्वृद्धिः, एवमिहाप्यत इष्टवृद्धिरिति, एवं विवेकग्रहणमत्र जलम् , अतिगम्भीरोदार एष आशयः,