________________
ललितविस्तरासंस्कृत टीका
पं०..." एतेनेत्यादि” एतेन - धर्मादिकरत्वज्ञापनेन सर्वथा - अर्थज्ञानशब्दरूपप्रकाशनप्रकारकात्स्न्येनापौरुषेयवचननिरासः, न पुरुषकृतं वचनमित्येतन्निरासः कृत इति गम्यते, वचनान्तरेणापि एनं समर्थयितुमाह
१२०
यथोक्तं धर्म्मसारप्रकरणे वचनपरीक्षायाम्, असम्भवि-न सम्भवतीत्यर्थः, अपौरुषेयम्अपुरुषकृतं वचनमिति प्रक्रमाद्गम्यते इदमेव वृत्तिकृत् व्याचष्टे - बान्ध्येयख र विषाणतुल्यम्अदित्यर्थः, अपुरुषकृतं वचनं ततः किमित्याह - विदुषां - सुधियां "अनुपन्यसनीयं” पक्षतया - व्यवहरणीयं “विद्वत्समवाये" सभ्यपरिषदि, कुत इत्याह- "स्वरूपनिराकरणाद्” अपौरुषेयत्वस्य साध्यस्य धम्मिस्वरूपेण वचनत्वेन प्रतिषेधाद्, अस्यैव भावनामाह तथेत्यादिना कथं तद्भवितुमर्हतीति पर्यन्तेन, सुगमं चैतत् प्रयोगः- यदुपन्यस्यमानं स्ववचनेनापि बाध्यते, न तद्विदुषा विद्वत्सदसि उपन्यसनीयं, यथा माता मे वंध्या, पिता मे कुमारब्रह्मचारीति, तथा चापौरुषेयं वचनमिति, अभ्युच्चयमाह-" न च" नैव " एतद्” अपौरुषेयतयाऽभ्युपगतं वेदवचनं "केवलं” पुरुषव्यापाररहितं “क्वचिद्” आकाशादौ " ध्वनत् " शब्दायमानम् " उपलभ्यते " श्रूयत इति, उपलभ्यत एव क्वचित् कदाचित्किश्चिच्चेदित्याह -
"
"
“उपलब्धावपि श्रवणेऽपि क्वचिद्वनच्छन्दस्य " अदृश्यवक्त्राशङ्कासम्भवाद् अदृश्यस्य पिशाचादेर्वक्तुराशङ्कासम्भवात्तेन भाषितं स्यादित्येवं संशयभावादसारमेतदिति सम्बध्यते, कुत इत्याह-“ तन्निवृत्त्युपायाभावाद् ” अदृश्यवक्त्राशङ्कानिवृत्तेरुपायाभावात्, न हि कश्चिद्धेतुरस्ति येन साशङ्का निवर्त्तयितुं शक्यत इति एतदपि कुत इत्याह - " अतीन्द्रियार्थदर्शिसिद्धेः अतीन्द्रियं - पिशाचादिकमर्थं द्रष्टुं शीलः पुरुष एव हि तन्निवृत्त्युपायः, तत एव पिशाचादि - प्रभवमिदं स्वत एव वा ध्वनदुपलभ्यते इत्येवं निश्चयसद्भावाद्, व्यतिरेकमाह - " अन्यथा अतीन्द्रियार्थदर्शिनमन्तरेण " तदयोगाद् " अदृश्यवक्त्राशङ्कानिवृत्तेरयोगात्, यदि नाम अतीन्द्रियार्थदर्शी सिध्यति, ततः का क्षतिरित्याह
""
66
""
66
"
“पुनस्तत्कल्पनावैयर्थ्यात् ” अतीन्द्रियार्थदर्शिनमभ्युपगम्य पुनः - भूयस्तत्कल्पनावैयर्थ्याद् - अपौरुषेयवचनकल्पनावैयर्थ्यात् सा ह्यतीन्द्रियार्थदर्शिनमनभ्युपगच्छतामेव सफला, यथोक्तम्अतीन्द्रियाणामर्थानां साक्षाद्द्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति ॥ १ ॥ असारं ” परिफल्गु “ एतद् ” यदुतापौरुषेयं वचनमिति । " स्यादेतत् ” परस्य वक्तव्यं, 66 " परमार्थतो न केवलं मम " भवतोऽपि " पौरुषेयवचनवादिनः “ ऐदम्पर्यशुद्धया अपौरुषेयमेव वचनं न पौरुषेयमपि, अत्र हेतुमाह - " सर्वस्य " ऋषभादेः “सर्वदर्शिनः” सर्वज्ञस्य “तत्पूर्वकत्वाद्” वचनपूर्वकत्वाद्, एतदपि कुत इत्याह - "तप्पुब्विया” वचनपूर्विका "अरहया" अर्हता इति वचनाद्, अथ स्याद् - अनादिरर्हत्सन्तानस्ततः कथं न पौरुषेयं वचनमित्याशङ्क्याह - " तदनादित्वेऽपि " तेषाम् - अर्हतामनादित्वेऽपि " तदनादित्वतः "
तत्त्वतः
तत्त्वतः
""