________________
ललितविस्तरामंस्कृतटीका चैतत्केवलं कचिद् ध्वनदुपलभ्यते, उपलब्धावप्यदृश्यवक्त्राशङ्कासम्भवात् , तन्निवृत्त्युपायाभावात् , अतीन्द्रियार्थदर्शिसिद्धेः अन्यथा तदयोगात्,
पुनस्तत्कल्पनावैयादसारमेतदिति, स्यादेतत्-भवतोऽपि तत्त्वतोऽपौरुषेयमेव वचनं,सर्वस्य सर्वदर्शिनस्तत्पूर्वकत्वात् “तप्पुविया अरहया" इतिवचनात् , तदनादित्वेऽपि तदनादित्वतस्तथात्वसिद्धेः,
अवचनपूर्वकत्वं चैकस्य, तदपि तन्त्रविरोधि, न्यायतोऽनादिशुद्धवादापत्तेरिति, न अनादित्वेऽपि पुरुषव्यापाराभावे वचनानुपपत्त्या तथात्वासिद्धेः, ___ न चावचनपूर्वकत्वं कस्यचित्, तदादित्वेन तदनादित्वविरोधादिति, बीजाकुरवदेतत् , ततश्चानादित्वेऽपि प्रवाहतः सर्वज्ञाभूतभवनवद्वक्तृव्यापारपूर्वकत्वमेवाखिलवचनस्येति, नन्वेवं सर्वज्ञ एवास्य वक्ता सदा नान्यः, तदसाधुत्वप्रसङ्गादिति,
___ सोऽवचनपूर्वक एव कश्चिन्नीतितः, ननु बीजाङ्कुरवत् इत्यनेन प्रत्युक्तं, परिभावनीयं तु यत्नतः, तथाऽर्थज्ञानशब्दरूपत्वादधिकृतवचनस्य शब्दवचनापेक्षया नावचनपूर्वकत्वेऽपि कस्यचिद्दोषः, मरुदेव्यादीनां तथाश्रवणात् , वचनार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तत्वतस्तत्पूर्वकत्वमिति, भवति च विशिष्टक्षयोपशमादितो मार्गानुसारिबुद्धर्वचनमन्तरेणापि तदर्थप्रतिपत्तिः, क्वचित्तथादर्शनात् , संवादसिद्धेः, . एवं च व्यक्त्यपेक्षया नानादिशुद्धवादापत्तिः, सर्वस्य तथा तत्पूर्वकत्वात् , प्रवाहतस्त्विष्यत एवेति, न ममापि तत्त्वतोऽपौरुषेयमेव वचनमिति प्रपञ्चितमेतदन्यत्रेति नेह प्रयासः।