________________
११६
ललितविस्तरासंस्कृतटोका अष्टमे देवलोके षट्सहस्राणि, नवमदशमयोः चतुःशतानि २ जिनचैत्यानि सन्ति, एकादशद्वाददशयोः त्रिशतानि २, नवसु अवेयकेषु, अष्टादशाधिकत्रिशतानि, पञ्चसु अनुत्तरेषु पञ्च, उत्तमानि चैत्यानि सन्ति, एवं च चतुरशीतिलक्ष-सप्ताधिक-नवति-सहस्राणि जिनचैत्यानि सन्ति,
____ तानि सर्वाणि योजनशतायतानि पञ्चाशद्योजनोच्चानि, द्वि (द्वा) सप्तति-योजनपृथुलानि ज्ञेयानि. ___ एकैकस्मिन् , चैत्ये सभासहितानां, अष्टोतरशतजिनविम्बानां प्रमाणं ज्ञेयं,
सर्वसंख्यां मिलित्वा, शतकोटिद्विपञ्चाशत्-कोटि चतुर्णवतिलक्ष-चतुश्चत्वारिंशत्-सहस्राधिकाष्टाधिकसप्त-शतसंख्याका जिनप्रतिमा ज्ञेयाः, ('अन्यथेत्यादि' अन्यथा-कायोत्सर्गस्य (निमित्तं) भिन्नं, स्तुतिश्च भिन्ना, एतन्न युक्तं, एवं सत्यपि भिन्नत्वाऽभ्युपगमेऽतिप्रसङ्गः स्यात्-एवं चेत् सूत्रस्योद्देशोऽन्यः, पाठश्चान्यः ततस्तु सूत्राऽध्ययनादेर्नाम दत्त्वा, सूत्रस्योद्देश-समुद्देश-अनुज्ञाकरणादिकं निरर्थकं भविष्यतीत्येवं यत् किञ्चित् एतद् )
पुनश्च प्रथमपदकृताभिख्यं पुष्करवरद्वीपार्द्ध विधिवत्पठति पठन्ति वा तस्येदानीमभिसम्बन्धी विवरणं चोन्नीयते-सर्वतीर्थकराणां स्तुतिरुक्ता, इदानीं तैरुपदिष्टस्यागमस्य येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् , अत इदमुच्यते
"पुक्खरवरदीवड्ढे धायइसंडे य जंबुद्दीवे य ।
भरहेरवयविदेहे धम्माइगरे नमंसामि ॥१॥" व्याख्या-पुष्कराणि-पद्मानि तैर्वरः, पुष्करवरश्चासौ द्वीपश्चेति समासः, तस्यार्द्ध-मानुषोत्तराचलार्वाग्भागवर्ति तस्मिन् , तथा धातकीनां खण्डानि यस्मिन्स धातकीखण्डो द्वीपः तस्मिंश्च, तथा जम्ब्वा उपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्योपन्यस्तेषु यानि भरतैरावतविदेहानि, प्राकृतशैल्यात्वेकवचननिर्देशः, द्वन्द्वैकवद्भावाडा भरतैरावतविदेह इत्यपि भवति,