________________
ललितविस्तरासंस्कृतटीका सर्वतीर्थकराणाम् , अन्यथाऽन्यः कायोत्सर्गः, अन्या स्तुतिरिति न सम्यक् , एवमप्येतदभ्युपगमेऽतिप्रसङ्गः, स्याद् एवमन्योद्देशेऽन्यपाठः, तथा च निरर्थका उद्देशादयः सूत्र इति यत्किञ्चिदेतत्, व्याख्यातं लोकस्योद्योतकरानित्यादिसूत्रम् ॥
अथ-क्षमाश्रमणत्रयं दत्त्वा चैत्यवंदनस्य, आदेशं मार्गयित्वा जघन्यतो गाथात्रयवत् , उत्कृष्टतः अष्टोतरशतगाथावत् चैत्यवंदनं क्रियते, तदनु — जंकिंचिसूत्र' कथयित्वा, शक्रस्तवः कथ्यते. प्रथमद्वितीयाऽधिकारी, तदनु 'अरिहंत चेइयाणं' च अन्नत्थसूत्रं कथयित्वा, एकनमस्कारविषयकः कायोत्सर्गःकार्यः, तदनु एकनमस्कारकायोत्सर्ग पारयित्वा अधिकृतकचैत्यविषयकं, वा एकजिनसत्को स्तुति वदेत् , इति तृतीयोऽधिकारः, तदनु चतुर्विंशतिस्तवः कथनीय इति चतुर्थोऽधिकारः, एवं चैत्यवंदनविषयकाश्चत्वारोऽधिकारा दर्शिताः, तदनन्तरं 'सव्वलोए अरिहंत चेइयाणं करेमि काउस्सगं, वंदणवत्तियाए' इत्यादिपदैः अरिहंत चेइयाणं सूत्रं सम्पूर्ण कथनीयं, पुनः, अन्नत्थ सूत्रं कथयित्वा, एकनमस्कारकायोत्सर्ग कृत्वा, पारयित्वा च सर्व चैत्यसंबंधिनी अथवा सर्वजिनसंबंधिनी द्वितीयस्तुतिः कथनीया, इति पंचमाधिकारस्य व्याख्यां कथयति
टी....देववन्दने 'लोगस्स' स्यान्ते यत् 'सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए ' कथ्यते तत्र.
भवनपतौ सप्तकोट्यः द्विसप्ततिलक्षाणि जिनचैत्यानि सन्ति, तथाऽपि प्रत्येकचैत्ये, अष्टोतरशतानि जिनबिम्बानि मितानि-प्रमितानि ज्ञेयानि, अर्थात् त्रयोदशशतनवाधिकाशीतिकोटीसहित-षष्टिलक्षाणि जिनविग्वानि बोध्यानि.
तिर्यग्लोके द्वात्रिंशदधिक-नवाधिकपञ्चाशत्-सहस्राणि चैत्यानि वर्त्तन्ते, तत्र लक्षत्रयाधिकैकाधिकनवतिसहस्राधिकत्रिशताधिकविंशतिसंख्याका जिनप्रतिमाः, सन्ति, तदुपरि व्यन्तरज्योतिषां निकायमध्ये यानि यानि शाश्वतानि जिनबिम्बानि तेषां शुभनामानि ऋषभ-चन्द्राननवारिषेण-वर्धमानरूपाणि सन्ति. सम्मेत्तशिखराष्टापदशत्रुञ्जयादीनि तीर्थानि बहुसंख्यानि तत्र स्थितानि जिनबिम्धान्यपि बहुसंख्यानि वर्तन्ते ।
सौधर्मादिदेवलोके :-प्रथमदेवलोके द्वात्रिंशल्लक्षाणि जिनचैत्यानि, द्वितीयदेवलोके अष्टाविशतिलक्षाणि, तृतीय देवलोके द्वादशलक्षाणि, चतुर्थदेवलोके-अष्टलक्षाणि, पञ्चमे चतुर्लक्षाणि निनचैत्यानि, तथा षष्ठे देवलोके पञ्चाशत्सहस्राणि, सप्तमैदेवलोके चत्वारिंशत् सहस्राणि,