________________
ललितविस्तरा संस्कृतटीका
यथा चन्द्रेभ्यो निर्मलतरास्तथा आदित्येभ्योऽधिकं प्रकाशकराः, अनित्यासंख्यसूर्याश्च परिमितक्षेत्रं प्रकाशयन्ति, तेभ्योऽपि, अधिकं प्रकाशकरा अर्हन्तो भवन्ति यतः केवलज्ञानप्रकाशेन विश्वप्रकाशकाः अर्थात् केवलज्ञानप्रकाशेन त्रैकालिकसमग्रपर्यायसमग्र द्रव्यरूपं विश्वं प्रकाशयन्ति. (३) यथा चन्द्रेभ्यो निर्मलतरा यथाऽऽदित्येभ्योऽधिकं प्रकाशकरास्तथा 'सागरवर गम्भीराः ' असङ्ख्यातद्वीपसमुद्रेभ्यः परोऽन्तिमः स्वयम्भूरमणनामकः सागरः, अतिगम्भीरो वर्त्तते, प्रलयकालीन - प्रभञ्जनादिवायुसमूह उपरिष्टाद् वहमानेऽपि पुष्करावर्तमहामेघा वर्षेयुस्तथापि, अविकृतस्वभावः - अक्षोभ्यस्वभावः, परमगम्भीरस्वभावः स्वयंभूरमणसमुद्रो निगद्यते तथा, अर्हन्तोऽपि, अपरिमितपरिषहैः घोरैरुपसर्गवर्गादिवातपुञ्जः सद्भिः, अक्षोभ्याः - अविकृतप्रकृतयो भगवन्तो भवन्ति . ते कस्याञ्चित् विषमपरिस्थितौ समतां - समतुलां न नाशयन्ति, ज्ञानादिभावजलेना मलेनाऽगाधतां धारयन्ति च सागरवर–स्वयम्भूरमणसागरतोऽपि, अतिगम्भीराः,
११४
(४) सिद्धाः–सितं (बद्धं) घ्मातमेषामिति सिद्धाः, कर्मविगमात्कृतकृत्या इत्यर्थः, सिद्धिपरमपदप्राप्ति, मम दिशन्तु - अस्माकं प्रयच्छन्तु इति, गाथार्थः ॥
एवं चतुर्विंशतिस्तवमुक्त्वा सर्व्वलोक एवार्हच्चैत्यानां कायोत्सर्गकरणायेदं पठति पठन्ति वा - " सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि जाववोसिरामि व्याख्या पूर्ववत्, नवरं सर्वलोके, अर्हच्चैत्यानां इत्यत्र लोक्यते - दृश्यते केवलज्ञानभास्वतेति लोकश्चतुर्दशरज्ज्वात्मकः परिगृह्यते इति. उक्तं च- "धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ||१|| सर्व्वः खल्वधस्तिर्यगूर्ध्वभेदभिन्नः सर्व्वश्चासौ लोकश्च सर्व्वलोकस्तस्मिन् सर्वलोके त्रैलोक्य इत्यर्थः, तथाहि - अधोलोके चमरादिभवनेषु तिर्यग्लो के द्वीपाचलज्योतिष्क विमानादिषु ऊर्ध्वलोके सौधर्मादिषु सन्त्येवार्हच्चैत्यानि ततश्च मौलं चैत्यं समाधेः कारणमिति मूलप्रतिमायाः प्राक् पश्चात्सर्वेऽर्हन्तस्तद्गुणा इति सर्वलोकग्रहः, कायोत्सर्गचर्चः पूर्ववत् तथैव स्तुतिः, नवरं
"
""
""