________________
ललितविस्तरासंस्कृतटीका
__ गाहा, व्याख्या-इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा "चंदेहिं निम्मलयरत्ति” तत्र सकलकर्ममलापगमाञ्चन्द्रेभ्यो निर्मलतरा इति, तथा, आदित्येभ्योऽधिकं प्रकाशकराः, केवलोद्योतेन विश्वप्रकाशनादिति, उक्तं च
"चंदाइचगहाणं पहा पगासेइ परिमियं खेतं ।
केवलियणाणलंभो लोयालोयं पगासेइ ॥१॥"
तथा-सागरवरगम्भीराः' तत्र सागरवरः-स्वयम्भूरमणोऽभिधीयते, परीषहोपसर्गाद्यक्षोभ्यत्वात् , तस्मादपि गम्भीरा इति भावना, सितं-ध्मातमेषामिति सिद्धाः, कर्मविगमात्कृतकृत्या इत्यर्थः, सिद्धि-परमपदप्राप्ति, मम दिशन्तु-अस्माकं प्रयच्छन्त्विति गाथार्थः, ॥७॥ [इति श्रीमुनिचन्द्रसूरिविरचितललितविस्तरापअिकायां चतुर्विंशतिस्तवः समाप्तः ॥] टी०..."चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा।
सागरवरगम्भीरा, सिद्धा सिद्धिं मम दिसन्तु ॥७॥" (१) चन्द्रत्वावच्छेदेनावच्छिन्ना यावन्तश्चन्द्राश्चराचरभेदेन ते असंख्याताः सकर्माणः सावधयो बाह्या अशाश्वतास्तेषां समुदितचन्द्राणां या निर्मलता, वाह्यजगति वर्ततेऽतो लोका वदन्ति, चन्द्रा निर्मला-मलरहिताः, परन्तु, अर्हन्तो भगवन्तः परमात्मानः सदा सकलकर्ममलाऽपगमात्-घाति-अघातिरूपः-सकलः - कर्मरूपभावमलस्तस्याऽपगमेन-क्षयेण, पूर्वोक्तचन्द्रेभ्यो, आत्यन्तिकैकान्तिकानन्तकालीन-स्वाभाविकनिर्मलतराः, भगवतां निर्मलता चन्द्रेभ्योऽनन्तगुणवती भगवद्भ्यश्चन्द्राणां निर्मलताऽनन्तगुणहीनतावती कथ्यते. .....(२) तथा, आदित्येभ्योऽधिकं प्रकाशकराः, केवलोद्योतेन विश्वप्रकाशनादिति. उक्तं च-"चन्द्रादित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् ।
कैवलिकज्ञानलम्भो, लोकालोकं प्रकाशयति ।"