________________
ललितविस्तरासंस्कृत टीका
मनोमनीषितं प्राप्नुवन्ति, ( एवं पूजकाः पूजकोपरिरागद्वेष - शून्यपरमात्मद्वारा परमात्मभक्तिस्तुतिकरणेन भव्या इष्टफलसिद्धि प्राप्नुवति) अत उच्यते 'परमात्मतः ' फलरूपबोधिसमाधिः प्राप्तो भवति, किञ्चातो बोधिदं समाधिदं प्रभुमर्हन्तं स्तुवे सदैवं प्रोच्यते ।
११२
(४) यथा चिन्तामणिरत्नादेरुपा सनाद्वारा फलप्राप्तावपि निश्चयतश्चिन्तामणिरत्नस्य एतादृग्वस्तुस्वभावोऽस्ति यत् तस्योपरि रागाभावेऽपि तत्फलं ददाति तथाऽर्हतां प्रभूणां, एतादृग्वस्तुस्वभाव एवाऽस्ति यदेतेषां परमात्मनां स्तुतितो बोधिलाभादिं भव्या रागा - भावेऽपि लभन्ते, ' स्वभावस्तु पर्यनुयोगानर्हेौऽस्ति, '
(५) अर्हतामेतादृशोऽचिन्त्यप्रभावोऽस्ति यदेषां भक्तिकरणतः पूर्वसञ्चितानि कर्माणि क्षीयन्ते, यतः स्तुतिभक्तिबहुमानप्रभृतिषु परमात्मनां परमगुणानां परमबहुमानोऽस्ति, एतच्चकर्मवनदहनदावानलसदृशं कर्मसञ्चयस्तु मिथ्यात्वादिदोषान् गृहीत्वैव जातः, ततः स्वाभाविकं वस्तु वर्त्तते यत् सर्वज्ञवीतरागगुणविषयकभक्ति बहुमानतो दोषा नश्यन्ति ।
(६) एतदुक्तं भवति - यद्यपि ते भगवन्तो वीतरागत्वात् प्रार्थनीयारोग्यादि, साक्षान्न प्रयच्छन्ति, तथाप्येवंविधवाक्यप्रयोगतः = " समाहिवरमुत्तमंदितु " इत्यादि प्रार्थनावचनं - गणधर रचितवचनं तत्र तीर्थकरस्य सम्मत्या 'जिनप्रवचनं' तद् - श्रद्धाय तद्द्वारा क्रियमाणप्रार्थनायां - प्रवचनाराधनं ज्ञेयं, तत्प्रवचनाराधनतया प्रार्थनाकारकस्य सन्मार्गवर्तिनः साधोः श्रावकस्य च सन्मार्ग- सम्यग्दर्शनादिमार्गानुसारिणः, तत्सत्ता निबन्धनमेव तदुपजायते = ' आरोग्यबोधिलाभं समाधिवरमुत्तमं ददतु' इत्यादि - भक्तिगर्भितवचनरचनाद्वारा प्रवचनस्याराधना भवति, ततः सन्मार्गवर्तिना महात्मना, आरोग्यरूपसिद्धत्वजनकबोधिलाभप्रयुक्तोत्तमवरसमाधिमूलकारणभूतमाराधनमाप्यतेऽथवा, आराधनायाः सत्ता यत्र मूलकारणमस्ति तदारोग्यादि प्राप्यते, अर्थात्प्रवचनाराधनाद्वारा सन्मार्गवर्तिनो महापुरुषस्य, आरोग्यादि प्राप्तं भवति, किञ्च प्रवचनाराधना, एतादृशभक्तिरसभरपूरितवचनरचनया भवति एवं परम्परया भगवन्तो भक्तानामारोग्यादिविषयिणीं प्रार्थनां पूरयन्त्येव ।
अथाऽत्र श्रीसिद्धभगवतां स्तुतिकरणद्वारा, सिद्धस्थितेः सम्पूर्णवर्णनं, वैखरीवाण्या न शक्यमतस्तस्योपमाद्वारा यत् किञ्चित् सम्यग्दानं ददाति शास्त्रकार:
चंदे निम्मलयरा आइचेसु अहिअं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥७॥