________________
ललितविस्तरासंस्कृतटीका
१११ (८) अनभिगृहीता=बहुकार्यकरणावसरे कश्चित् कश्चित् पृच्छेदिदं कृत्यं कुर्याम् ! तदा
कथयेत्स 'स्वं यथामति तत्कार्य कुर्याः ' (९) गृहीता=' अधुनेदं कर्त्तव्यम्' इत्यादिकथनमिति, (१०) संशयकरणी अनेकार्थकशब्दस्य प्रयोगीकरणं यथा 'सैन्धवमानयेत्यत्र सैन्धवस्य द्वावौँ'
भवतः (१) लवणं (२) अश्वश्चेति, आनयनकारकेण किमानेतव्यम् इति तस्य
निर्णयकरणमवशिष्ट भवतीति, (११) व्याकृतास्पष्टार्थकःशब्दो वक्तव्यः, (१२) अव्याकृता=अतिशयेन गहनार्थकमथवाऽव्यक्ताक्षरकं कथनम् ,
"तत्प्रार्थनायां तथाऽपि च, न मृषावादोऽप्यत्र विज्ञेयः । तत्प्रणिधानतः खलु तद्गुणतोऽवश्यं फलभावः ॥२॥ चिन्तामणिरत्नादिभिः, यथा तु भव्याःसमीहितं वस्तु । प्राप्नुवन्ति तथा जिनैः, रागाभावेऽपि (रागाद्यभावेऽपि) ॥३॥ वस्तुस्वभाव एषः, अपूर्वचिन्तामणि महाभागः । स्तुत्वा तीर्थकरान् . प्राप्यते बोधिलाभ इति ।। ४ ।। भक्त्या जिनवराणां, खिद्यन्ते (क्षीयन्ते ) पूर्वसंचितानि कर्माणि ।
गुणप्रकर्षबहुमानः कर्मवनदवानलो येन ॥५॥" अर्थात्--"समाधिवरमुत्तमं ददतु" इति वचनप्रयोगः, सार्थकानर्थक चिन्तायां (प्रश्ने वा) भजना-विकल्पो वर्तते, यतः, चतुर्थीव्यवहाररूपाऽस्ति, एष विषयःपूर्वाचार्यैः कथितोऽस्ति यत
(१) एषा चतुर्थी, असत्याऽमृषा भाषाऽस्ति, विशेषस्तु भक्त्या भाषितैषा खलु क्षीणरागद्वेषा वीतरागाः साक्षात् समाधि च बोधिं च न ददति ।
(२) तथापि वीतरागानामप्रतो या प्रार्थना क्रियते तत्र प्रार्थनावचसि मृषावादरूपदोषो नास्ति, तत्प्रणिधानः, यतश्चित्ते–परिणामेण सुन्दशत्महितस्याशंसनमस्ति, समाधियोधिरूपं निर्मल प्रणिधानं भवति, तद्गुणतः तथाऽर्हतामचिन्त्यप्रभावेण समाधियोधिरूपं फलं निष्पद्यते एवं वर्तमाननिर्मलपरिणतिस्तथा भाविसुन्दरपरिणामो यत्र प्रार्थनायां वर्तते, तदा मृषावादः कथं तिष्ठेत् !
___ (३) यथाचिन्तामणिरत्न-दक्षिणावर्त्तशङ्ख-कल्पवृक्ष-कामकुम्भादिः, यद्यपि पूजकस्योपरि न रज्यति, रागेण किमपि स्वकरतो न यच्छति, तथापि चिन्तामणि-प्रभृति-बारा तु भव्या