________________
ललितविस्तरा संस्कृतटोका
धर्मप्रार्थनाया अविशेषज्ञतारूपो व्यवहारः, धर्मस्य चारम्भावसानसुन्दर परिणामरूपत्वादृद्धेश्व पदे पदे विपदां पदभूतत्वात् महान् विशेषः, अन्यस्य च भवाऽभिष्वङ्गत इत्थं बोद्धुमशक्तत्वात् ' सार्थकानर्थक - चिन्तायां तु भाज्य' मेतत् ।
११०
अर्थाद्, अभ्युदयरूपं फलं धर्मस्य रूढत्वेन मन्यमानाः संसारव्यवहारिणो भवन्ति, अभ्युदय फलाय धर्मप्रार्थनायामविशेषज्ञता, एतादृशी दृश्यते तथाहि ऋद्धयभिष्वङ्गतोऽभ्युदयाय क्रियमाणायां धर्मप्रार्थनायामविशेषज्ञ - व्यवहारः योगि- मुमुक्षुबुद्धिगम्यो - गोचरोऽस्ति दृश्यतां तावद् ऋद्धिधर्मयोर्मध्ये, ईदृशो विशेषो - विवेको ज्ञेयः, आरम्भत आरभ्य परिसमाप् (अवसान ) पर्यन्तं सुन्दरपरिणाम ( भाव - फल) वान् धर्मेऽस्ति ऋद्धिस्तु पदे पदे विपदां पदभूताऽस्ति, एतादृशो विशेषबोधो, भवाऽभिनन्दिनां संसारसागरं प्रति, अपाररागसागरवतां भवितुमशक्योऽस्ति “ सार्थकानर्थकचिन्तायां तु भाज्यमेतत् ' चतुर्थभाषारूपत्वादि ' ति, अयमभिप्रायः=चतुर्थी हि एषा भाषा आशंसारूपा न कञ्चन सिद्धमर्थं विधातुं निषेद्धं वा समर्थेति-अनर्थिका,
77
प्रकृष्टशुभाध्यवसायः फलमस्या भवतीति सार्थिकेत्येवं भाज्यतेति ||
('समाधिवरमुत्तमं ददतु' इति वचनमेतत् सार्थकनिरर्थक - चिन्तायां विकल्पनीयं भजनाऽत्रास्ति यतः चतुर्थभाषारूपमस्तीति. )
तदुक्तं " भाषा असत्यामृषा, नवरं भक्त्या भाषिता एषा ।
न खलु क्षीणप्रेमदोषा, ददति समाधि च बोधि च ॥
29
(१-सत्या - मृषा-सत्यामृषा असत्यामृषेति भाषायाश्चत्वारो भेदा भवन्ति, तन्मध्यतः प्रस्तुतत्वेन चतुर्थी भाषा वर्ण्यते, तथाहि - असत्यामृषारूपाया भाषाया, द्वादशभेदाः कथ्यन्ते, एषा भाषा न सत्या, न मृषा, सत्याऽमृषारूपा नास्ति, किञ्चास्या व्यवहार एव हेतुरस्ति, (१) आमंत्रणी = 'हे विबोध' ! एवं सम्बोधनरूपा,
(२) आज्ञापनी = 'त्वमेव कुरु इति - आज्ञारूपा,
(३)
( ४ )
याचनी = ' त्वं माममुकं देहि ' इति याचनारूपा,
प्रच्छनी = तज्ज्ञपार्श्वे ' प्रश्नस्य समाधानं प्रष्टव्यम्' इति प्रच्छनरूपा, प्रज्ञापनी - शिष्यायोपदेशो दातव्यः 'हिंसा न कार्या' इति प्रज्ञापनारूपा,
(६) प्रत्याख्यानी = याचकस्य नेति कथनरूपा,
इच्छानुलोमा = कश्चित् किञ्चित्कार्यारम्भकरणे कञ्चित् पृच्छेच्च स कथयेत् 'इदं कृत्यं कुरु मदीयानुमोदनाऽस्तीति,