________________
ललित बिस्तरा संस्कृत टीका
१०९
तीर्थकरनिदानं ) यतः ' तथेच्छाया एव' धर्म गौणीकृत्य ऋद्धि - अभिलाष एवेष्टभाव (मोक्षभावं ) प्रति विघ्नरूपः, यतः, ऋद्धिनिष्ठप्राधान्यप्रयुक्तधर्मनिष्ठगौणबुद्धिभावः ( कारणमात्रत्वेनगौणाध्यवसायभावः )
अत्रैव विशेषतो भावना = एतत् प्रकृतनिदानम् (ऋद्धीच्छाया, मुख्यत्वपूर्वक - तीर्थकरपद (धर्म) विषयकाशंसा) ' अतत्त्वदर्शनम्' अपरमार्थावलोकन विपर्यासः ( मिथ्याज्ञानं - भ्रान्तिज्ञानं ) इदं, अतत्त्वदर्शनं 'महदपायसाधनं ' - नरकपाताद्यनर्थकारणं, प्रकृतिनिदानं, मिथ्यात्वप्रयुक्तातत्वदर्शनं विपर्यासरूपं नरकपाताद्यनर्थकारण भवति,
तत्र हेतु प्रदर्शयति
"
अविशेषज्ञता हि गर्हिता " सामान्येन, पुरुषार्थोपयोगिनो जीवस्याजीवस्य च धर्मरूपा गुणास्तेषां गुणेतररूपाणां दोषाणां गुणदोषाणां च विशेषः - विवरणकारको विभागः, जीवगतधर्माः गुणाः पुरुषार्थोपयोगिनः = जीवगता वैराग्याऽनासक्ति - शुद्धज्ञानादिस्वरूपोपशमेन्द्रियदमनहेयोपादेयोपेक्षणीय - तत्त्वदृष्टिप्रभृतयो धर्माः सत्पुरुषार्थोपयोगिनः,
जीवगतदोषाः - जीवगता रागद्वेषकामक्रोध लोभ जडदृष्टिप्रभृतयो दोषाः सत्पुरुषार्थोपघातकाः,
८८
अजीवगतगुणे, पुद्गलगुणे तथा तद्दोषचिन्तनं शटनपत्तनविध्वंसनादिः पुद् गलगुणः, इति चिन्तनादिद्वारा, वैराग्यादिद्वारा - पुरुषार्थोपयोगि, दादोषत्वेनेष्टवर्णवर्ण- गन्ध-रसस्पर्शादिधर्माः, रागादिजनकत्वेन सत्पुरुषार्थोपघातकाः,
,,
एतादृशी = अविशेषज्ञता, विपरीतबुद्धिरात्महितघातस्य नरकाद्यनर्थप्राप्तेः कारणत्वेन हिंसानृतादिवत् सा गर्हिता - दूषिता, पृथग्जनानामपि ' पृथक्-तथाविधालौकिकसामायिकाचारविचारादे बहिः स्थिता बहुविधा बालादिप्रकारा जनाः - प्राकृत लोकाः पृथग्जनास्तेषामपि किं पुनरन्येषां शास्त्राधीनधियां सुधिया मित्यपिशब्दार्थः, सिद्धं - प्रतीतमेतद्-अविशेषज्ञता गर्हणं. " नार्घन्ति रत्नानि समुद्रजानि, परीक्षका यत्र न सन्ति देशे ।
आभीरघोषे किल चन्द्रकांतं, त्रिभिः किला है: (भिर्वशटैः ) प्रवदन्ति गोपाः ॥ १ ॥ “अस्यां सखे ! बधिरलोकनिवासभूमौ किं कूजितेन तव कोकिल ! कोमलेन । एते हि दैववशतस्तदभिन्नवर्ण, त्वां काकमेव कल्यन्ति कलानभिज्ञाः ॥ २ ॥ ” इत्याद्यविशेषज्ञव्यवहाराणां तेषामपि गर्हणीयत्वेन प्रतीतत्वाद्, स्यादेतद्-अभ्युदय फलत्वेन धर्म्मस्य लोके रूढत्वात्तथैव च तत्प्रार्थनायां काऽविशेषज्ञता इत्याशङ्क्याह- ' - 'योगिबुद्धि मम्योऽयं व्यवहारः ' मुमुक्षुबुद्धिपरिच्छेद्योऽयं व्यवहारो " मुमुक्षुबुद्धिपरिच्छेद्योऽयं, ऋद्धयभिष्वङ्गतो
((
6