________________
११७
ललितविस्तरासंस्कृत टीका
तत्र धर्मादिकरान्नमस्यामि, 'दुर्गतिप्रसृतान् जीवानि' त्यादिश्लोकोक्तनिरुक्तो धर्मः, स च द्विभेदः - श्रुतधर्म्मश्चारित्रधर्म्मश्च, श्रुतधम्र्मेणेहाधिकारः, तस्य च भरतादिष्वादौ करणशीलास्तीर्थकरा एव । आह - श्रुतज्ञानस्य स्तुतिः प्रस्तुता, कोऽवसरस्तीर्थकृतां ? येनोच्यते-धर्मादिकरान्नमस्यामोति, उच्यते, श्रुतज्ञानस्य तत्प्रभवत्वात्, अन्यथा तदयोगात्, पितृभूतत्वेनावसर एषामिति ।
—अथ शास्त्रकारः, ' पुक्खरखरदी' सूत्रकथनपूर्वकं ' सुअस्स भगवओ करेमि काउसग्गं वंदणवत्तिआए' इत्यादिसूत्रमुच्चार्य 'अन्नत्थ' कथयित्वा एकनमस्कारविषयककायोत्सर्गं कृत्वा - पारयित्वा च सिद्धान्तविषयक वन्दनासत्क - तृतीयस्तुतिकथनरूप - षष्ठसप्तमाधिकारं दर्शयन् कथयति. -
टी... पुनश्चप्रथमपदकृताभिमुख्यं, आदिपदेन कृतनाम - आदाननामवत् - पुष्करवरद्वीपार्धसूत्रं(गौण-गुणवाचकनामवत्—श्रुतस्तबं) विधिवत्, एकोऽनेके वा पठति-पठन्ति वा, तस्येदानीमभिसम्बन्धो विवरणं चोन्नीयते, सर्वतीर्थंकराणां स्तुतिरुक्ता, इदानीं तैरुपदिष्टस्यागमस्य येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् अत इदमुच्यते
(6 पुक्खश्वर दीवड्ढे घायइसंडे य जंबुदीवे य । भर हेरवय - विदेहे धम्मा गरे नम॑सामि || "
अभिसम्बन्धः=' लोगस्स ' सूत्रे सर्वतीर्थकराणां स्तुतिरुक्ता, अधुना तैरुपदिष्टस्यागमशास्त्रस्य येनागमेन ते भगवन्तस्तदभिहिताश्च भावाः (द्रव्यपर्यायाद्या) स्फुटं - स्पष्टमुपलभ्यन्ते, ज्ञानगोचरीक्रियन्तेऽतस्तत् प्रदीप स्थानीयं - स्वपरप्रकाशकदीपवत् - आगमज्ञानं - श्रुतज्ञानं प्रकाशयति. अत एव, एष सर्वज्ञः, तदुक्तागमश्च स्तुतिः - कीर्तनयोग्यैव.
पुष्करवरेत्यादि=पद्मपुञ्जप्रधानद्वीपस्यार्द्ध ( अर्धोभागः ) मानुषोत्तरा चला दर्वाग्भागवर्ति, तस्मिन् । ( मानुषा उत्तरे यस्य स मानुषोत्तराचलः, अर्थादेतस्य पूर्वभागे मानुषा न सन्ति अपि तूत्तरभागे ) पुष्करखरद्वीपार्थे,