________________
ललितविस्तरासटोका अर्थात्तीर्थङ्कराः प्रसीदन्तु इत्यत्रैतद् वाक्यं यदि प्रार्थना-याचनारूपं स्यात्तदाऽऽशंसा, (इच्छा) त्याज्यैव, चैत्यवंदनादिकं तु निराशंस-निष्कामभावेन कर्त्तव्यमेव,
यदि न प्रार्थना तदा तदुपन्यासः कथं कृतः ? अप्रयोजनश्चेद्-(प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्त्तते) प्रयोजन-फलं न तदा चैत्यवन्दनादिसूत्रं सुन्दरं न ।
यदि सप्रयोजन उपन्यासस्तदा वीतरागा:प्रसीदन्तु इत्येवं सूत्रं कथयति, (प्रसादरूपो) तदर्थ एष (प्रसन्नाप्रसन्नताविशिष्टवीतरागत्वेन) वस्तुतो-यथार्थतया वस्तुस्थितिरूपो न जातः, अर्थात् सूत्रमयथार्थ प्रतीत्य प्रयोजनं कथं सिद्धयेत् !
समाधानम् अत्रोच्यते-'न प्रार्थनषा, ' तल्लक्षणानुपपत्तेः
(१) तदप्रसादाक्षेपिकैषा, तथा लोकप्रसिद्धत्वात् , अप्रसन्नं प्रति प्रसाद ( प्रार्थना ) दर्शनाद् , अन्यथा तदयोगात् ,
(२) भाव्यप्रसादविनिवृत्त्यर्थ च, उक्तादेव हेतोरिति । उभयथाऽपि तदवीतरागता । अर्थात् , एतत् प्रार्थनाया अभावोऽत्र साध्यते, प्रार्थनाया लक्षणस्याघटमानता, प्रार्थनालक्षणप्रार्थनीयव्यक्तौ यद्वस्तु नास्ति तत्कारणाय याचनं,
(१) अतः प्रार्थनीयवस्तुनि तत्प्रसादाभावविषयक आरोप उत्थितो (उत्थापितो) भवति अर्थापत्तिद्वारा तत्प्रसादासंभवो परिख्याप्यते, तथा च प्रस्तुते 'वीतरागाः प्रसीदन्तु ' इति प्रार्थनावाक्येन वीतरागा अप्रसन्नाः सन्ति, तथा लोकप्रसिद्धहेतु-द्वारा कथ्यते, यत् 'अप्रसन्नं प्रत्येव प्रसादविषयकप्रार्थना' दृश्यते अन्यथा प्रसन्नं प्रति प्रसादाप्रार्थनाया अयोगः-अभाव एव.
(२) साम्प्रतं प्रसन्नो, अप्रसन्नो नास्ति, परन्तु भाविकाले-अप्रसादविनिवृत्त्यर्थ-भविष्यत्कालेअप्रसन्ना मा भवन्तु इति भाविकालीनप्रसन्नतासिद्धयर्थ प्रार्थना भवति,
उभयत्र लोकप्रसिद्धिनामको हेतु विज्ञेयः, उभयथाऽपि तदवीतरागता, अर्थाल्लोकप्रसिद्धिहेतुजन्य-वर्तमानकालावच्छिन्न प्रसादविषयक-भाविकालीनाप्रसाद-विनिवृत्ति-फलकप्रार्थनारूपप्रकारद्वयेन तीर्थकरेषु वीतरागेषु, अवीतरागता-वीतरागताया अभाव एव ॥ भगवत्स्तुतिरूपा प्रार्थना
___ अत एव स्तवधर्मव्यतिक्रमः, अर्थापत्त्याक्रोशात्, अनिरूपिताऽभिधानद्वारेण न खल्वयं वचनविधिरार्याणां, तत्तत्त्ववाधनात् । वचनकौशलोपेत-गम्योऽयं मार्गः । अप्रयोजनसप्रयोजनचिन्तायां तु न्याय्य उपन्यासः, भगवत्स्तवरूपत्वात्, अर्थात् , अत्र 'प्रसीदन्तु' इति वाक्येन