________________
ललितविस्तरासटीका
द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिः यदुपयोगास्वास्थ्यं भवति, येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधा, अतो द्रव्यसमाधिव्यवच्छेदार्थ, आह, वरं-प्रधान भावसमाधिमित्यर्थः, असावपि तारतम्यभेदेनानेकथैव, अत आह-उत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु, आह-किमिदं निदानमुत नेति, यदि निदानमलमनेन, सूत्रप्रतिषिद्धत्वात् , न चेत्सार्थकमनर्थकं वा ?, यद्याद्यः पक्षस्तेषां रागादिमत्त्वप्रसङ्गः, प्रार्थनाप्रवीणे प्राणिनि तथादानात्, अथ चरमः, तत आरोग्यादिदानविकला एते इति जानानस्यापि प्रार्थनायां मृषावादप्रसङ्ग इति, अत्रोच्यते, न निदानमेतत् , तल्लक्षणायोगात्, द्वेषाभिष्वङ्गमोहगर्भ हि तत् , तथा तन्त्रप्रसिद्धत्वात् , ___पं०...."न निदानेत्यादि" न नैव निदानं-नितरां दायते-लूयते सम्यग्दर्शनप्रपञ्चबहलमूलजालो ज्ञानादिविषयविशुद्धविनयविधिसमुद्धरस्कन्धबन्धो विहितावदातदानादिभेदप्रभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसम्पत्तिप्रसूनाकीर्णोऽनभ्यर्णीकृतनिखिलब्यसनव्याकुलशिवालयशर्मफलोल्बणो धर्मकल्पतरुरनेकसुरद्धर्याद्याशंसनपरिणामपरशुनेति निदान, “ एतद् " आरोग्यबोधिलाभादिप्रार्थनं, कुत इत्याह-" तल्लक्षणायोगात्" निदानलक्षणाघटनात् , निदानलक्षणमेव भावयन्नाह-"द्वेषाभिष्वङ्गमोहगर्भ हि तत्" द्वेषो-मत्सरः, अभिष्वङ्गो-विषयानुग्रहो, मोहः-अज्ञानं ततस्ते द्वेषाभिष्वङ्गमोहा गर्भाः-अन्तरङ्गकारणं यस्य तत्तथा हिः-यस्मात्तन्निदानं, कुत इत्याह-“तथा" द्वेषादिगर्भतया “तन्त्रप्रसिद्धत्वात्" निदानस्यागमे रूढत्वात् , रागदोषगर्भयोर्निदानयोः सम्भूत्यग्निशर्मादिषु प्रसिद्धत्वेन तल्लक्षणस्य सुबोधत्वात् , निर्देशमनादृत्य मोहगर्भनिदानलक्षणमाह
टी....' प्रसीदन्तु ' इत्येतत् प्रार्थना-विषयक-चर्चा
शङ्का=आह “ किमेषा प्रार्थना उत न ? इति, यदि प्रार्थना, न सुन्दरेषाऽऽशंसारूपत्वात् । अथ न, उपन्यासोऽस्या अप्रयोजन इतरो वा ! अप्रयोजनश्चेदचारु वन्दनसूत्रं निरर्थकोपन्यासतुल्यत्वात् । अथ सप्रयोजनः कथमयथार्थतया तत्सिद्धिरिति ।"