________________
९६
ललितविस्तरासंस्कृतटीका यस्तु स्तुतः प्रसीदति रोषमवश्यं स याति निन्दायाम् । सर्वत्रासमचित्तः स्तुत्यो मुख्यः कथं भवति? ॥३॥ शोतार्दितेषु हि यथा द्वेषं वहिर्न याति रागं वा। नाह्वयति वा तथापि च तमाश्रिताः स्वेष्टमश्नुवते ॥४॥ तद्वत्तीर्थकरान्ये त्रिभुवनभावप्रभावकान् भक्त्या। समुपाश्रिता जनास्ते, भवशीतमपास्य यान्ति शिवम् ॥५॥
एतदुक्तं भवति यद्यपि ते रागादिभी रहितत्वान्न प्रसीदन्ति, तथापि तानुद्दिश्याचिन्त्यचिन्तामणिकल्पान् अन्तःकरणशुद्ध्याऽभिष्टवं च कर्तृणां, तत्पूर्विकैवाभिलषितफलावाप्तिर्भवतीति गाथार्थः तथा “कित्तियवन्दियमहिया, जे ए लोगस्स उत्तमा सिद्धा।
आरुग्गबोहिलाभ, समाहिवरमुत्तमं दितु ॥६॥" व्याख्या-कीर्तिताः-स्वनामभिः प्रोक्ता; वन्दिताःत्रिविधियोगेन सम्यक् स्तुता, महिताः-पुष्पादिभिः पूजिताः, क एते इत्यत आह-य एते लोकस्य-प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाः-प्रधानाः, ऊर्द्ध वा तमस इत्युत्तमसः,
उत्प्राबल्योर्ध्वगमनोच्छेदनेषु” इति वचनात्, प्राकृतशैल्यो पुनरुत्तमा उच्यन्ते, "सिद्धा” इति सितं-ध्मातमेषामिति सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं-सिद्धत्वं तदर्थं बोधिलाभः आरोग्यबोधिलाभ:-जिनप्रणीतधर्मप्राप्तिर्बोधिलाभोऽभिधीयते, तं, स चामिदानो मोक्षायैव प्रशस्यते इति, तदर्थमेव च सावकिम् , ? अत आह-समाधानं समाधिः, स च