________________
ललितविस्तरासंस्कृतटीका
मरणं-प्राणत्यागः-प्राणैः सह विप्रयोगो मरणमुच्यते प्राणेष्वपि प्रधानप्राणरूपमायुः, तस्य नाशेन शेषाः प्राणा वियुक्ता भवन्ति. यतो रजोमलरूपकर्मक्षयकारकाः अत एव जरामरणक्षयकारकाः ॥
"चतुर्विशतिरपि, अपिशब्दादन्येऽपि जिनवराः श्रुतादिजिनप्रधानाः, ते च सामान्यकेवलिनोऽपि भवन्ति, अत आह-"तीर्थकरा" इत्येतत्समानं पूर्वेण, मे-मम किं ? प्रसीदन्तुप्रसादपरा भवन्तु, अर्थाद् चतुर्विंशतिरपि-अत्रापि शब्देनैरवतमहाविदेहक्षेत्रीयाः, तीर्थकरा अपि ग्राह्याः, 'जिनवराः'-श्रुतादिजिनप्रघानाः-श्रुतजिनावधिजिनेषु प्रधानाः, पूर्ववत् सामान्यकेवलिनां त्यवच्छेदाय — तीर्थकरा' इति विशेषणं जिनवराणां ज्ञेयमिति, पूर्वोक्तविध्यनुसारेण स्तुताः, विधृतरजोमलाः, प्रक्षीणजरामरणाः चतुर्विशतिरपि जिनवरास्तीर्थकरा मयि प्रसादपरायणा भवन्तु.
आह-किमेषा प्रार्थना अथ नेति, यदि प्रार्थना न सुन्दरैषाऽऽशंसारूपत्वात्, अथ न, उपन्यासोऽस्या अप्रयोजन इतरो वा ? अप्रोजनश्चैदचारु वन्दनसूत्रं, निरर्थकोपन्यासयुक्तत्वात् , अथ सप्रयोजनः, कथमयथार्थतया तत्सिद्धिरिति, अत्रोच्यते, न प्रार्थनैषा, तल्लक्षणानुपपत्तः, तदप्रसादाक्षेपिकैषा, तथा लोकप्रसिद्धत्वात् , अप्रसन्नं प्रति प्रसाददर्शनात् , अन्यथा तदयोगात्, भाव्यप्रसादविनिवृत्त्यर्थं च, उक्तादेव हेतोरिति, उभयथाऽपि तदवीतरागता, अत एव स्तवधर्मव्यतिक्रमः, अर्थापत्त्याऽऽक्रोशात् , अनिरूपिताभिधानहारेण, न खल्वयं वचनविधिरार्याणां, तत्तत्त्वबाधनात्, वचनकौशलोपेतगम्योऽयं मार्गः, अप्रयोजनसप्रयोजन चिन्तायां तु न्याय्य उपन्यासः, भगवत्स्तवरूपत्वात् ॥ उक्तं च
क्षोणक्लेशा एते न हि प्रसीदन्ति न स्तवोऽपि वृथा। तत्स्वभावभाव (सद्भाव)विशुद्धः प्रयोजनं कर्मविगम इति ॥१॥ स्तुत्या अपि भगवन्तः परमगुणोत्कर्षरूपतो ह्येते । दृष्टा ह्यचेतनादपि मन्त्रादिजपादितः सिद्धिः ॥२॥