SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरासंस्कृत टीका तत्र (१) बध्यमान कर्म रजो भण्यते, पूर्ववद्धं तु मलमिति. अर्थात्, यथा पवनेन नीयमानं भित्त्यादौ रजः स्पृशति तथा आश्रवेण योगेन नीयमानं (वध्यमान) वर्तमानकालीनं नवीन कर्म रज उच्यते ( स्पृष्टं कर्म ) प्रमादादिना बद्धं मिथ्या मे दुष्कृतं भूयादिति विधिना क्षीयते, ___ (२) पूर्ववद्धं तु मलमिति. पूर्वकालीनं-भूतकालावच्छेदेन आत्मप्रदेशैः सह बन्धनविषयीकृतं कर्म (पौगलिकं) मलं कर्म कथ्यते, अथवा (१) बद्ध रजः, अर्थात् (स्पृष्ट-बद्ध-निधत्त-निकाचितभेदेन कर्माणि चतुर्धा कथ्यन्ते) तन्मध्ये बद्धं कर्म यथा सूचीपुञ्जो यदि सूत्रेन बद्धः सन् यदा सूत्रबन्धनस्य मोचनेन तदा सूच्योऽपि मुक्ता भवन्ति तथा यत्कर्म, विकथादिप्रमादेन जनितं प्राणातिपातादि-दोषैः बद्धं भवेत् , तदालोचना-प्रतिक्रमणादिं कृत्वा क्षीयते-क्षयभावं नीयते तद् बद्धं । (२) निकाचितं मलः (कर्म) चतुर्विधानां कर्मणां निकाचित-सुदृढरूपेण बद्धं, अर्थात् यथा तत्सूचीपुञ्जः, प्रागमो मुक्तवा धमित्वा लोहसत्क एक पिण्डीभूतो (कृतः) भवेत् , ततः तं लोहपिण्डं भङ्क्त्वा पुन र्घटित्वा ( घटेयुः ) तदा नवीनाः सूच्यो भवेयुः तथा जीवेन ज्ञात्वा (बुद्धवा) विपरीताध्यवसायेन यत्कर्म, कृतं, किश्च ‘मयेदं प्रशस्तं कृतं' पुनरपि पुन एवमेव करिष्यामीत्यादिवचोभि भयोभूयः प्रशंसाकरणेन जीवस्य प्रदेशैः सह गाढकत्वं प्रापितं तत् कर्म, यादृशं कृतं तादृशमेव भोक्तव्यमेव, गुरुणा दत्तेन घोरातिघोरतपः-प्रायश्चित्तादिनाऽपि न क्षयं याति तन्निकाचितं कर्म, तदत्र मल इत्युच्यते. अथवा=(१) ऐपिथं रजः (२) साम्परायिकं मलमिति, अर्थाद् वीतरागस्य मात्रयोगेन बध्यमानं कर्म 'ऐर्यापथं ' कर्म, सातवेदनीयं, त्रिसामयिक-बन्धभोगक्षयात्मकं, छद्मस्थस्य कषायेण वध्यमानं कर्म 'साम्परायिक' विधूतरजोमलाः सर्वथाऽपनीतरजोमलास्तीर्थकराः " यतश्चैवंभूता अत एव प्रक्षीणजरामरणाः, कारणाभावादित्यर्थः, तत्र जरा-वयोहानिलक्षणा, मरणं प्राणत्यागलक्षणं, प्रक्षीणे जरामरणे येषां ते तथाविधाः," अर्थाद् यतोऽपनीतरजोमलाः ( रजोमलकर्मरहिता ) अत एव प्रक्षीणजरामरणाः, यतः कर्मकारणाभाबो वर्तते, यदि कर्मसत्ता स्यात् तदा जरामरणयोः सत्ता स्यात् , कर्मकारणस्यात्यन्तिकाभावः स्यात्तत्र जरामरणरूपकार्यस्यैकान्तिकाभावः सिद्धः, अजरामरत्वमापन्नाः । तत्र जरा-वयोहानिः ( शरीरस्य वियन्ति-क्रमेण गच्छन्ति वयांसि, बाल्यादीनि तेषां ( वयसो वा यौवनस्य) हानि:-क्षीणता-न्यूनता, वृद्धावस्थेत्यर्थः)
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy