________________
ललितविस्तरासंस्कृतटीका (२०) व्यु.-मन्यते जगतस्त्रिकालावस्थामिति 'मुनिः,' “मनेरुदेतौ चाऽस्य वा” (उणा-६१२)
इति इप्रत्ययेउपान्त्य स्योत्वम् । शोभनानि व्रतान्यस्य सुव्रतः, मुनिश्चा सौसुव्रतश्च 'मुनिसुव्रतः'
वि.-तथा गर्भस्थे जननी मुनिवत् सुव्रता जातेति मुनिसुव्रतः।। (२१) व्यु.-परीषहोपसर्गादिनामनात् “ नमेस्तु वा” ( उणा-६१३ ) इति विकल्पेनोपान्त
स्येकाराभावपक्षे ' नमिः'।
वि.-यद्वा गर्भस्थे भगवति परचक्रनृपः अपि प्रणतिः कृतेति नमिः। (२२) व्यु.-धर्मचक्रस्य नेमिवन्नेमिः, नेमीतीन्नन्तोऽपि दृश्यते यथा “वन्दे सुव्रतनेमिनौ इति ।
वि.-जनन्या स्वप्ने रिष्टरत्नमयो नेमिः ( चक्रधारा ) दृष्ट इति नेमिः । (२३) व्यु.-स्पृशति ज्ञानेन सर्वभाबानिति 'पावः ।
वि.-तथा गर्भस्ये जनन्या निशि शयनीयस्थयाऽन्धकारे सो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तात् पार्श्वः, पाश्वोऽस्य वैयावृत्यकरो यक्षस्तस्य नाथः,
पार्श्वनाथ: 'भीमो भीमसेन' इति न्यायाद् वा पावः। (२४) व्यु.-विशेषेण ईश्यति प्रेरयति कर्माणीति · वीरः'।
वि.-गर्भस्थे भगवति ज्ञातकुलं धनधान्यादिसर्वद्धितो वर्धमान जातमतो 'वर्धमानः' इति नाम कीय॑मानमस्ति । अथ कीर्तनं कृत्वा चेतः शुद्धयर्थं प्रणिधिमाह
अर्थात्-पूर्वगाथासु पूर्व कीर्तनं कृतमधुनाऽध्यवसायविशुद्धये प्रणिधिं कथयति (प्रणिधानं) करोति, अत्र पञ्चमीगाथायां 'तीर्थकरा मम प्रसीदन्तु' इति वाक्येन प्रार्थनामात्रं नास्त्यपितु प्रणिधान-चित्तस्य ध्यानपूर्वकं, एकप्रशस्ताऽऽशंसारूप-निर्मलात्मपरिणामोऽस्ति.
" एवं मया-अभिष्टुता, विधूतरजोमलाः प्रहीणजरामरणाः ।
चतुर्विशतिरपि जिनवराः, तीर्थकरा मे प्रसीदन्तु ॥ ५॥" व्याख्या एवं-पूर्वकथितेन विधिना-स्तुतिकरणविषयक-विधिना, मयेति आत्मनिर्देशमाह (अत्र स्तुतिकारकस्य निर्देशनं-स्वव्यक्तिदर्शन) अभिष्टुताः-अभिमुखत्वेन (सम्मुखत्वेन, तीर्थकरान् अभिसम्मुखस्थितेनेव मया ) नामानि गृहीत्वा चतुर्विशतिजिनवराः स्तुताः कीर्तिताः, कीदृशास्ते तीर्थकराः ? किं विशिष्टास्ते ? ' विधृतरजोमलाः ' तत्र रजश्च मलं च रजोमले, विधूते-प्रकम्पिते, अनेकार्थत्वाद्धातूनाम् , अपनीते रजोमले यस्ते तथाविधाः ।