________________
९२
ललितविस्तरासंस्कृतटीका
(१०) व्यु.-सकलसत्त्वसन्तापहरणात् , 'शीतलः'।
वि.-तथा गर्भस्थे भगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यपित्तदाहो जननीकरस्पर्शादुपशान्तः
इति शीतलः। (११) व्यु.-श्रेयांसावंसावस्य श्रेयांसः, पृषोदरादित्वात् ।
वि.-यथा गर्भस्थेऽस्मिन् केनाऽप्यनाक्रान्तपूर्वदेवताऽधिष्ठितशय्या जनन्याक्रान्तेति श्रेयो
जातमिति श्रेयांसः। (१२) व्यु.-वसुपूज्यनृपतेरयं 'वासुपूज्यः'।
वि.-यद्वा गर्भस्थेऽस्मिन् वसु-हिरण्यं तेन, वासवो राजकुलं पूजितवानिति, वसवो देव
विशेषास्तेषां पूज्यो वा वसुपूज्यः, प्रज्ञाद्यणि वासुपूज्यः । (१३) व्यु.-विगतो मलोऽस्य, विमलज्ञानादियोगाद्वा 'विमलः'।
वि.- यद्वा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः । (१४) व्यु.-न विद्यते गुणानामन्तोऽस्य 'अनन्त:.' अनन्तजिदेकदेशो वा 'अनन्तः',
भीमो भीमसेन इति न्यायात् स चासौ तीर्थकृचानन्ततीर्थकृत् ।
वि.-स्वप्ने मात्रा (अनन्त) रत्नराशिखचितो महान् हारो दृष्टः । (१५) व्यु.-दुर्गतौ प्रपतन्तं सत्त्वसवात धारयति धर्मः ।
वि.-तथा गर्भस्थ जननी दानादिधर्मपरा जातेति ‘धर्मः' । (१६) व्यु.-शान्तियोगात् तदात्मकत्वात् तस्कर्तृकत्वाच्चायं 'शान्तिः । ... .
वि.-गर्भस्थे पूर्वोत्पन्नाऽशिवशान्तिरभूदिति शान्तिः। (१७) व्यु.-कुःपृथ्वी, तस्यां स्थितवानिति 'कुन्थुः' पृषोदरादित्वात् ।
वि.-तथा गर्भस्थे भगवति जननी रस्नानां कुन्थुराशि दृष्टवतीति कुन्थुः । (१८) व्यु.-"सर्वो नाम महासत्त्वः, कुले य उपजायते ।।
तस्याऽभिवृद्धये वृद्धै रसाकर उदाहतः ॥” इतिवचनादरः। वि.-तथा गर्भस्थे भगवति जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः । (१९) व्यु.-परीषहादिमल्लजयान्निरुक्तान्मल्लिः ।
वि.-तथा गर्भस्थे भगवति मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया परित : इति मल्लिः ।