________________
ललितविस्तरासंस्कृतटीका
कुंथु अरं च मलिं, वन्दे मुनिसुव्रतं नमिजिन च ।
वंदामि रिष्टनेमिं, पार्श्व तथा वर्धमानं च ॥ ४ ॥" एता निगदसिद्धा एव, नामाऽन्वर्थनिमित्तं त्वावश्यके “ उरूसु उसभलन्छण, उसभं सुमिणमि तेण उसभजिणो" इत्यादिग्रन्थादवसेयमिति ।
आवश्यकसूत्रनियुक्तो, एवं वर्णितमस्ति, तत्तत्प्रभोर्गर्भकाले घटिता या घटना, तया ताश्या विशेषतया यन्नामजातं तद्व्यक्तिविशेषनाम, तथा संस्कृतभाषायां शब्दव्युत्पत्त्या द्वारा यज्जातं नाम, तन्नाम, सर्वभगवविषयव्यापकं नाम भवति.
एतस्यामवसर्पिण्यां(१) व्युत्पत्तिः-ऋषति-गच्छति परमपदमिति "ऋषिवृषिलुसिभ्यः कित् " (उणा. ३३१)
विशेषनाम-यद्वा ऊर्वोवृषभलाञ्छनमभूद्भगवतो, जनन्या च चतुर्दशानां स्वप्नानामादौ
वृषभो दृष्टस्तेन 'ऋषभः'। (२) व्यु.-परीषहादिभि न जितः इति, 'अजितः।
वि.-यद्वा गर्भस्थे अस्मिन्-छूते राज्ञा जननी न जितेत्यजितः । (३) व्यु.-शं-सुखं भवत्यस्मिन् स्तुते 'शम्भवः'।
वि.-यद्वा गर्भगतेऽष्यस्मिन्नभ्यधिक सस्यसम्भवात् सम्मवोऽपि । (४) व्यु.-अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, भुज्यादित्वाद् नट् ।
वि.-यद्वा गर्भात्प्रभृत्येवामीक्ष्णं शक्रेणाऽभिनन्दनाद् 'अमिनन्दनः । (५) व्यु.-शोभना मतिरस्य 'सुमतिः'।
वि.-यद्वा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः। (६) व्यु.-निष्पकतामङ्गीकृत्य पद्मस्येव प्रभाऽस्य 'पद्मप्रभः'।
वि.-यद्वा पद्मशयनदोहदो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति वा पद्मप्रभः । (७) व्यु.-शोभनौ पाविस्य ‘सुपार्श्वः'। ____वि.-यद्वा गर्भस्थे भगवति जनन्यपि सुपार्वाऽभूदिति सुपाश्वः । (८) व्यु.-चन्द्रस्येव प्रभा-ज्योत्स्ना सौम्यलेश्याविशेषोऽस्य चन्द्रप्रभः'।
वि.-तथा गर्भस्थे देव्याः चन्द्रपानदोहदोऽमदिति चन्द्रप्रभः । (९) व्यु.-शोभनो विधिविधानमस्य 'सुविधिः'।
वि.-यद्वा गर्भस्थे भगवति जनन्यऽप्येवमिति सुविधिः।