________________
९०
ललितविस्तगसंस्कृतटीका
कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमिं, पासं तह बदमाणं च ॥४॥
एता निगदसिद्धा एव, नामान्वर्थनिमित्तं त्वावश्यक “उरूसु उसभलन्छण, उसभं सुमिणमि तेण उसभजिणो” इत्यादि ग्रन्थादवसेयमिति, कीर्तनं कृत्वा चेतःशुद्धयर्थं प्रणिधिमाह
एवं मए अभिथुआ, विहुअरयमला पहीणजरमरणा। चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥
व्याख्या-“ एवम् ” अनन्तरोदितेन विधिना मयेत्यात्मनिर्देशमाह, अभिष्टुता इति आभिमुख्येन स्तुता अभिष्टुताः स्वनामभिः कीर्तिता इत्यर्थः, किंविशिष्टास्ते ? विधूतरजोमलाः, तत्र रजश्च मलं च रजोमले विधूते-प्रकम्पिते, अनेकार्थत्वाद्धातनाम् , अपनीते रजोमले यैस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो भण्यते, पूर्वबद्धं तु मलमिति, अथवा बद्धं रजः, निकाचितं मलः, अथवैर्यापथं रजः साम्परायिकं मलमिति, यतश्चैवंभूता अत एव प्रक्षीणजरामरणाः, कारणाभावादित्यर्थः, तत्र जरावयोहानिलक्षणा मरणं-प्राणत्यागलक्षणं प्रक्षीणे जरामरणे येषां ते तथाविधाः, चतुर्विंशतिरपि, अपिशब्दादन्येऽपि, जिनवरा:श्रुतादिजिनप्रधानाः, ते च सामान्यकेवलिनोऽपि भवन्ति, अत आह-" तीर्थकरा" इत्येतत्समानं पूर्वेण मे-मम किं ? प्रसीदन्तु-प्रसादपरा भवन्तु, टी०..." ऋषभमजितं च वन्दे, सम्भवमभिनन्दनं च सुमतिं च।।
पद्मप्रभं सुपार्श्व, जिनं च चन्द्रप्रभं वन्दे ।। २॥ सुविधि च पुष्पदन्तं, शीतलश्रेयांसवासुपूज्यं च । विमलमनन्तं च जिनं, धर्म शान्तिं च वन्दामि ॥३॥