________________
ललितविस्तरासंस्कृतटीका
शङ्का आह-यद्येवं केवलिन इत्येतावदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्याद्यपि न वाच्यमिति,
अर्थात् 'केवलिनोऽर्हतः कीर्तयिष्यामी' ति वाच्यम्, लोकोद्योतकर-धर्मतीर्थकरजिनानित्यादि कथं वाच्यम् !
समाधानम् अत्रोच्यते, इह श्रुतकेवलिप्रभृतयो, अन्येऽपि विद्यन्त एव केवलिनस्तन्माभूतेप्वेव सम्प्रत्यय इति तत्प्रतिक्षेपार्थ लोकस्योद्योतकरानित्याद्यपि वाच्यमिति,
अर्थात्, अत्र केवलित्वरूपसामान्यधर्मापेक्षया श्रुतकेवलि-आदि (आदिना सामान्य केवली (तीर्थकरान् गणधरान् विना शेषकेवली) तथा मुण्डकेवलि (मूकान्तकृत् केवलि) प्रभृतयो ज्ञेयाः)
सम्पूर्णश्रुतादिसापेक्षश्रुतकेवल्यादयो भवन्ति, तेषु श्रुतकेवलिप्रभृतिषु भावार्हत्त्व-प्रतीति र्मा भूत् , तथा श्रुतकेवल्यादिषु भावार्ह ताम्रान्तिभङ्गाय, लोकोद्योतकर-धर्मतीर्थकर-जिनकेवल्यादिविशेषणानि भावार्हदग्रहणाय अत्यावश्यकानि, एवं द्वयादिसंयोगापेक्षयाऽपि विचित्रनयमताऽभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यमित्यलं विस्तरेण, गमनिकामात्रमेतदिति.
(इयं पद्धतिःपुरातनी, श्रीमद्-हरिभद्रसूरीश्वरेण यथा 'लोगस्स' इत्यादि प्रथमगाथायां विशेषणसाफल्यं कृतं तथा श्रीमद्हेमचन्द्रसूरीश्वरविरचिताऽन्ययोगव्यवच्छेदद्वात्रिंशिकास्तवे श्रीमन्मल्लिषेणसूरिप्रणीतायां स्याद्वादमञ्जर्या प्रथमश्लोकटीकायां विशेषणसाफल्यविधौ पद्धतिरेतादृशी समादृता, प्रलोक्यतां तत्र.)
तत्र यदुक्तं (या प्रथमगाथायां प्रतिज्ञा कृताऽऽसीद् यत्, अहं नाम गृहीत्वा चतुर्विंशतिमर्हतां 'कीर्तयिष्यामि' इति यदुक्तं) तत्कीर्तनं कुर्वन्नाह
तत्र यदुक्तं “कीतयिष्यामीति” तत्कीर्तनं कुर्वन्नाहउसभमजिअं च वंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्फदंतं, सीअल--सिज्जंस--वासुपुज्जं च । विमलमणतं च जिणं, धम्म संतिं च वंदामि ॥३॥