________________
ललितविस्तरासंस्कृतटीका
न चैकान्ततो व्यभिचारसम्भवे एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे, एकपदव्यभिचारे, स्वरूपज्ञापने शिष्टोक्तिषु तत्प्रयोगदर्शनात्,
___ अर्थात् , अभिप्रायपरिज्ञानं चेत्थं-लोकस्योद्योतकरा-धर्मतीर्थकराः-जिनाः 'केवलिनः' एवार्हन्तो नान्ये नाकेवलिनः, इति नियमार्थ-व्याप्त्यर्थ स्वरूप (अर्हत्स्वरूप) ज्ञापनार्थमिदं केवलिन इति विशेषणमत्यनवद्यम् ,
किश्चैकान्तेन (सर्वथा) व्यभिचारसम्भवे (अतिव्याप्तिआदिदोषसम्भवे) एव विशेषणग्रहणसाफल्यं न, यतः उभयपदव्यभिचारे, एकपदव्यभिचारे, स्वरूपज्ञापने शिष्टोक्तिषु तत्प्रयोगदर्शनात्,
(१) तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, नीलमपि कमलं भवति, श्वेतमप्युत्पलं भवति, प्रस्तुते नीलत्वानिविशे श्वेतमप्यागच्छेत् , अप्रस्तुते व्यभिचरणमतिक्रमणं जातमिति व्यभिचारवारणाय नीलं वाच्यं, एवं नीलं कमलं तु भवति च वस्त्रमपि भवेत्, तत उत्पलाकथनेनाप्रस्तुते वस्त्रे व्यभिचारो जातस्तद्वारणाय पदद्वयं वाच्यम् ।।
___ (विशेषणविशेष्ययोः सम्बन्धिशब्दत्वादेकतरोपादाने नैव द्वये लब्धे. द्वयोरुपादानं परस्परमुभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे समासो यथा स्यादित्येवमर्थ । यथा नीलोत्पलमित्यत्र नीलशब्देन रक्तोत्पलादिकं व्यवच्छिद्यते । उत्पलशब्देन नीलपटादिकं व्यवच्छिद्यते इति)
अत्र नीलपदमितरव्यावर्तकं, उत्पलपदमपीतरव्यावर्तकं व्यभिचारद्वय-वारकम् विशेषणपदं । अत्रेतरव्यावृत्तिफलम् ,
(२) तथैकपदव्यभिचारे यथा अब् द्रव्यं, पृथिवी द्रव्यम्, अत्रैकपदव्यभिचारवद् विशेषणपदप्रयोगवती, वाक्यरचना, यथा जलं द्रव्यं, पृथ्वी द्रव्यमत्र द्रव्यत्वरूपविशेषणेन गुणादिगतव्यभिचारो व्यवच्छिद्यते, अत एवैकपद-व्यभिचारो (अतिव्याप्तिः) दृष्टांतेन ज्ञेयः ।
(३) तथा स्वरूपज्ञापने यथा परमाणुरप्रदेशः इत्यादि,
स्वरूपज्ञापनरूपफलवद्विशेषणप्रयोगवत्या शिष्टवाक्यरचनाया दृष्टान्तः, यथा ‘परमाणुरप्रदेशः', (परमाणोः प्रदेशो नास्ति, यतः स्वयमेवैक-प्रदेशरूपोऽस्ति.) अत्र परमाणोःप्रदेशराहित्यरूपस्वरूपज्ञापकं 'अप्रदेश' इति विशेषणपदम्, वस्तुस्थितिरेवमस्ति, यत् स्वरूपज्ञापनरूपफलमुद्दिश्य विशेषणपदप्रवृत्तिः, शिष्टानां-आप्तपुरुषाणां वाक्ये दृश्यमानाऽस्ति, अतः 'केवलिनः' इत्येतत् स्वरूपज्ञापनरूपफलज्ञापकं विशेषणपदं सफलं-निर्दोषम् ,
यतश्चैवमतः केवलिन इति न दुष्टं