________________
ललितविस्तरासंस्कृतटीका
द्यर्हतां व्यावर्तकत्वेन सफलान्येव. यद्येतानि विशेषणानि न निविष्टानि तदा भावार्हभिन्ननामाद्यर्हतामवश्यं ग्रहणं स्यात् केवलं भावाऽर्हद्ग्रहणायेमानि विशेषणानि विशेषोपयोगीन्येव ॥
शङ्का अपरस्त्वाह-केवलिन इति न वाच्यं, यथोदाहृततत्स्वरूपाणां, अर्हतां केवलित्वे, अव्यभिचारित्वात्, सति च व्यभिचारसम्भवे विशेषणोपादानसाफल्यात्, तथा च सम्भवे व्यभिचारस्य (रे च) विशेषणमर्थवद् भवति. यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः शुक्लो बलाहक इत्यादि ऋते प्रयासत्किमर्थं पुष्णातीति, तस्मात् केवलिन इत्यतिरिच्यते,
___ अर्थात् लोकोद्योतकरत्व-धर्मतीर्थकरत्व-जिनत्वविशिष्टानहतोऽहं कीर्तयिष्यामीत्येतावदेवास्तु 'केवलिन' इति विशेषणं माऽस्तु । यतः पूर्वोक्तविशेषणत्रयविशिष्टानामर्हतां केवलित्वे व्यभिचाराभावो वर्तते, अविनाभावो वर्त्तते, पूर्वोक्तविशेषणत्रयी वर्त्तते तत्रावश्यं केवलित्वं वर्चत एव, पूर्वोक्तविशेषणत्रयवन्तः केवलिन एव भवन्ति. अत्र व्यभिचाराभावेन विशेषणं सफलम् ।
किञ्च-व्यभिचारसम्भवे सति विशेषणग्रहणसफलत्वं भवति, तथा च सम्भवे व्यभिचारे च विशेषणमर्थवद् भवति.
____यथा नीलोत्पलमिति, [“सम्भवव्यभिचाराभ्यां स्याविशेषणमर्थवत्" यथा नीलो घट इत्यत्र घटस्य नीलता नीले घटे सम्भवति, पीतादिघटे व्यभिचरत्यतो घटस्य नील इति विशेषणमर्थवत् , “यत्र विशेष्ये विवक्षितविशेषणस्य न सम्भवो नापि सम्भवासम्भवरूपो व्यभिचारस्तत्र तद्विशेषणोपन्यासो व्यर्थत्वान्न कार्य इत्यर्थः” अत्र विशेष्ये विशेषणस्य सत्त्वं (विद्यमानत्व) सम्भवः, व्यभिचारस्तु विशेष्याद्भिन्नव्यक्तिषु विशेषणस्यासत्त्वं (अविद्यमानत्वं)]
यथा नीलोत्पलमित्यत्र स्थले, उत्पलस्य नीलत्वं नीलोत्पले सम्भवति, तथा रक्तोत्पले व्यभिचरति-न संभवति, अर्थाद् रक्तोत्पलव्यावृत्तिरपि उत्पलस्य नीलत्वसिद्धिकारिका, संभवव्यभिचारद्वारा विशेषणं सार्थकम् ।
व्यभिचाराभावे तु गृह्यमाणं विशेषणं यथा कृष्णो भ्रमरः, शुक्लो बलाहक इत्यादि विशेषणं क्लेशार्थकं कथं न!
अर्थाद् यथा 'कृष्णो अमरः' इत्यादिस्थले विशेषणं निरर्थकमधिकं तथाऽत्रापि अर्हतःकेवलिनः इति विशेषणं निरर्थकं कथं न ?
समाधानम्=नाधिकमिदं विशेषण कथमिति चेद् अभिप्रायापरिज्ञानात्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्ये इति नियमार्थत्वेन स्वरूपज्ञापनार्थमेवेदं विशेषणमित्यनवद्यं,