________________
ललित विस्तरा संस्कृत टीका
'तम्माऽभूत् तेष्वेव सम्प्रत्ययः ' अर्थात्लोकोद्द्योतक रत्वधर्मतीर्थकरत्वरूपं विशेषणद्वयं विमुच्य केवलं 'जिने' ति, एकं विशेषणं यदि दत्तं स्यात्तदा 'जिने' ति पदेन सामान्येन श्रुतजिनादिष्वेवाऽर्हत्त्वप्रतीतिः स्यादतः, तद्भान्तिव्युदासार्थं 'लोकस्यो द्योतकरानि ' त्याद्य दुष्टमेवार्थाद् लोकोद्योतकरत्वधर्मतीर्थ करत्वविशेषणद्वय - निवेशेन 'श्रुतजिनादीनां' व्यवच्छेदः सुतरामेव, लोकस्योद्योतकरत्वादि - विशेषणद्वयं श्रुतजिनादीनां भेदकत्वेन सार्थकमेव.
८६
शङ्काः = 'अर्हत इति न वाच्यं नानन्तरोदितस्वरूपा अर्हद्व्यतिरेकेणापरे भवन्ति किं ? अर्थालोको द्योतकर - धर्मतीर्थकर - जिनान् कीर्तियिष्यामीत्येतावदेवोच्यतां 'अर्हत इतिपदं न वाच्यम्' यतो लोकोद्द्योतकरत्व - धर्म तीर्थ करत्व - जिनत्वरूपस्वरूपा अर्हन्त एव भवन्ति नान्ये, तथाऽर्थापत्तितोऽर्हन्त एवाऽऽयान्ति तर्हि शब्दतो - अर्हत इति शब्दतः कथं कथयन्ति भवन्तः ? पूर्वोक्तविशेषणत्रयविशिष्टा अर्हद्भिन्ना अन्ये आत्मानो भवेयुस्तदा शब्दतोऽर्हत इति पदं वाच्यं कथं न भवेत् ?
समाधानम् = अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति अर्थाद् यदि केवलं गुणानामेव (लोकोद्योतकरत्व - धर्मतीर्थकरत्व - जिनत्वादिगुणानामेव ) मूल्यं प्रतिपन्नं स्यात्, तेषामधिकरणभूतानां गुणिव्यक्तीनां महत्त्वं प्रतिपन्नं न स्यात्तदा मिथ्यात्वादिदोषः प्रसज्येत, तद्दोषनिवारणाय, किञ्च गुणाधारभूतगुणिव्यक्तीनां महत्त्वं गुणतुल्यं कथं न ? गुणतुल्यमेवेति व्यक्तीक 'अर्हत' इति विशेष्यपदं सार्थकमेव गुणगुणिनोरभेद - सम्बन्धोऽस्ति.
शङ्का=यद्येवं हन्त तर्ह्यर्हत इत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थक कथं न ?
समाघानम्= तस्य नामाद्यनेकभेदत्वाद् भावाऽर्हृत्संग्रहार्थत्वादिति. अर्थात्, अर्हन्तोऽपि नामादिरूपानेकभेदवन्तो भवन्ति,
( " नाम जिणा जिणनामा, ठवणजिणा पुण जिणंद पडिमाओ । दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था ||”
ऋषभदेवेत्यादीनि यानि नामानि तानि 'नामजिना' इत्युच्यन्ते, पुनर्जिनेन्द्राणां प्रतिमाः(बिम्बानि ) ' स्थापना जिना' इत्युच्यन्ते, जिनानां जीवा 'द्रव्यजिना' उच्यन्ते, समवसरणस्था 'भावजिना' उच्यन्ते)
नामादिनानाभेदत्वात् भावाऽर्हतामेव संग्रहार्थ, संग्राह्योऽत्र भावाऽर्हन्नेव, नामाद्या अत्र व्यवच्छेद्याः कथ्यन्ते, लोकोद्द्योतकरत्व - धर्मतीर्थंकरत्व - जिनत्वादीनि विशेषणानि नामा