________________
ललितविस्तरासंस्कृतटीका
अर्थादर्हत्त्वाभाववति पुरुषे, अन्यदर्शनाभिमतज्ञानिनि (लोकोद्योतकरत्वधर्मतीर्थकरत्वरूपविशेषण-द्वये सति कश्चिन्मुग्धः, तस्मिन्नर्हत्त्वबुद्धिं मा कुर्यात् इति अन्यदर्शनि-कल्पिता आप्तपुरुषा अर्हन्तो न सन्तीति दर्शनार्थेऽथवा अन्यदर्शनिकल्पिताप्तपुरुषव्यवच्छेदाय 'जिनानि' ति अर्हतो विशेषणं सार्थकम् ।
___ सारांशः= अन्यमतिकल्पित-मुक्तजीवः पुनः सकारणं संसारी भवति' ततःतस्मिन् रागादि (संसारबीज) जेतृत्वरूपजिनत्वाभावोऽस्त्यतः 'जिनानि' ति विशेषणं, अन्यदर्शनकल्पिताप्तत्वस्य न्यावर्तकत्वेन सफलमस्ति.
शङ्कारागादिविजेतृत्वरूपजिनत्व-विशिष्टान् जिनान् 'अर्हतः' कीर्तयिष्याम्येतदेव वाच्यम्, 'लोकस्योद्योतकरस्व-धर्मतीर्थकरत्वरूपं विशेषणद्वयं अतिरिच्यते यतो ये जिनास्ते लोकोद्योतकराश्च धर्मतीर्थकरा नियतं किं न भवन्त्येव ?
समाधानम् इह प्रवचने-जैनशासनेऽस्मिन् , सामान्यतो विशिष्टश्रुतधरादयोऽपि जिना एवोच्यन्ते, तद्यथा श्रुतजिनाः (श्रुतकेवलिनः) अवधिजिनाः, मनःपर्यायजिनाः, छमस्थवीतरागाश्च, (छद्मस्थर्वतरागाश्च-उपशान्तमोहक्षीणमोहनामकैकादशद्वादशगुणस्थानस्था आत्मानः)
__ (जिनेशाः-इत्यत्र, रागद्वेषमोहानां जेतार:-चतुर्थगुणस्थानकादारभ्य यावद् द्वादशगुणस्थानपर्यन्तवर्तिन आत्मानः, तेषामीशाः, ते एव सर्वज्ञ-देवाः कथ्यन्ते, यै रागद्वेषमोहाः सर्वांशेन जिता न, ते सर्वज्ञदेवा अपि न, अल्पांशेनाऽपि च जिता न, ते जिना अपि न, सर्वांशेन रागादिजेतारः, त्रयोदशचतुर्दशगुणस्थाने स्थिताः श्रीसर्वज्ञदेवाः सन्ति चाल्पाऽधिकांशेन जेतारःचतुर्थादारभ्य यावद् द्वादशगुणस्थानवर्तिन आत्मानःसन्ति, ते च जिनपदेन व्यपदेश्याः सन्ति, यद्यपि क्षाणमोहनामक-द्वादशगुणस्थानके स्थिता महात्मानो रागद्वेषमोहानां सर्वथा क्षयकारिणो भवन्ति तथापि, तेषामद्यापि केवलिनो भवितुं । स्वल्पकालस्यान्तरमस्ति, ततस्तेषां कृतेऽपि सर्वज्ञदेवस्य व्यपदेशो न भवति परन्तु 'जिने' ति पदेन ते व्यपदिश्यन्ते,
अत्रेद बोध्यं त्रयोदशचतुर्दशगुणस्थाने स्थिता आत्मानो द्विधा (१) सामान्य केवलिनः (२) तीर्थक्करदेवात्मानः यद्यपि सामान्यकेवलिनो महर्षयोऽपि सर्वोशेन रागादिविजेतारःसन्ति. ततश्चतुर्थाद्यन्यगुणस्थानस्थानामवध्यादि-जिनानामीशाः-स्वामिनो भवितुं योग्याः सन्ति, तथापि ते, श्री तीर्थक्करनामकर्मनामक-महापुण्य-प्रकृतेः स्वामिनो न सन्त्यतः, श्री तीर्थक्करदेवात्मापेक्षया 'सामान्यजिनाः' एव कथ्यन्ते च तीर्थक्करदेवात्मानःसामान्यजिनानामपीशाः कथ्यन्ते, श्री जिनेश्वरपदं श्री तीर्थक्करदेवात्मनां कृते रूढमस्ति.)