________________
८४
ललितविस्तरासंस्कृतटीका दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाऽङ्कुरः ।।
कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ २॥” इत्यादि, अर्थाद् 'जिनानि' ति, अर्हतो विशेषणपदं व्यावर्तकं वतते,
(विद्यमानं सद्व्यावर्त्तकं विशेषणं, यत् साधारण्येन प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्य, एकस्मिन् प्रकारे व्यवस्थापयति तद् विशेषणं । संस्कृतवैयाकरणा हि विशेषणं त्रिधा वदन्ति (१) व्यावर्तकं (२) विधेयं (३) हेतुगर्भ,
व्यावर्तकं-भेदकं यथा 'पीतं वस्र' इत्यत्र 'पीत' विशेषणं व्यावत्र्तकं, यत इदं वस्त्रं, अन्यजातीयवस्त्राणि व्यावर्त्तयति विशेषणस्यैव मुख्यो धर्मः, तथा कस्यचिद् विधानं तद् विधेयं विशेषणं यथा-एतत् पुस्तकं सुन्दरं, अत्र 'सुन्दरं' इदं विधेयं विशेषणम् । यत्र हेतोरों गर्मितोऽस्ति, तद् 'हेतुगर्भ' विशेषणं, यथा 'मद्यपः पुरुषो मार्गे पतति' मद्यपानकारकत्वेन हेतुना पततीत्यत्र हेतुगर्भ विशेषणं, काव्ये तु साभिप्रायविशेषणेन चमत्कारिणा 'परिकरालङ्कारो' भवति ।
अर्थात् कुनय कुदर्शनमतानुसारि-परिकल्पितेषु लोकस्योद्योतकरत्वधर्मतीर्थकरत्व प्रकारेषु, अर्हत्त्व-सम्प्रत्ययो माऽभूदित्यस्तदपनोदायाह 'जिनानि' ति विशेषणं भेदकमस्ति, तथा च "धर्मतीर्थकरा ज्ञानिनः परमं पदं गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।। १॥" इत्यादि
('तथा चाहुराजीवकनयानुसारिणः' स्याद्वादमञ्जरी. अन्य. यो. व्य. श्लो. १) धर्मतीर्थकरा ज्ञानिनोऽपि प्राप्य परमं पदं स्वशासननिकारतःभवे पुनरावृत्तिकराः, भवबीजाकुरजननरागाद्यशत्रु-विजेतारः (जिनाः) न सन्ति ।
अन्वयः भवबीजजनकानां रागादीनां सत्त्वे भवरूपाङ्कुरसत्ता, व्यतिरेकः रागादिरूपबीजाऽभावे भवाङ्कुराभावः, एवं चान्वयन्यतिरेकाभ्यां रागादिभवरूपकार्यकारणभावः, अर्थात् संसाररूपाकुरकार्य प्रति रागादिरूपबीजं कारणं ज्ञेयम् । अन्यैरप्युक्तम्
अज्ञानपांशुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माकुरं जन्तोः ॥ १ ॥ तथा"दग्धे वीजे यथाऽऽत्यन्तं प्रादुर्भवति नाऽङ्कुरः,
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥२॥? इत्यादि प्रथमश्लोके, कर्मबीजसत्त्वे जन्मकार्यस्य सत्तारूपोऽन्वयः, द्वितीयश्लोके रागादिरूपबीजे दग्धेऽत्यन्तं भवाङ्कुराभावः, इति व्यतिरेकः ।