________________
ललितविस्तरासंस्कृतटीका द्योतकरानित्याद्यपि वाच्यमिति, एवं द्वयादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यामत्यलं विस्तरेण, गमनिकामात्रमेतदिति ।
टी.....समाधान=अत्रोच्यते, इह लोके ये नद्यादिविषमस्थानेषु मुधिकया, धर्मार्थम(भ)वतरणतीर्थकरणशीलास्तेऽपि धर्मतीर्थकरा एवोच्यन्ते, तन्माभूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानप्याह । अर्थादिह नदीसरोवरादिविषम (कठिनतम-सौकर्येणाऽवतरितुमशक्य) स्थानेषु मुधिकया-धर्मपुण्यबुद्धया स्वद्रव्यव्यनेन रचितत्वेनान्येषां मुधा, धर्मार्थ (अवतरन्त्यनेनाऽस्मिन् वाऽवतारः, नद्यादीनामवतरणमार्गः,तीर्थः) अवतरणतीर्थ (घट्ट-अवतार) करणशीलास्तेऽपि धर्मतीर्थकरा एवोच्यन्ते, (अथवा लौकिकदृष्टया भवतरणहेतुतीर्थ-पवित्रस्थान-यात्रास्थानप्रभृतिरूपतीर्थकरणशीलास्तेऽपि धर्मतीर्थकरा एवोच्यन्ते.) तन्मा. भूदतिमोहमुग्धबुद्धीनां जीवानां, तेषु-इतराभिमतधर्मतीर्थकरेषु 'अर्हत्त्वसम्प्रत्यय' इति, तत्रार्हत्त्वविषयकमिथ्यासम्प्रत्ययाऽपनोदाय 'लोकस्योद्योतकरा' नप्याह (अत्र पूर्वकथितेतराभिमतधर्मतीर्थकरेषु धर्मतीर्थकरत्वं बुद्धिः स्यादपि तत्र 'लोकस्योद्योत-करत्वं' नास्त्येवातोऽत्यन्तमुग्धबुद्धिजनस्याप्यर्हत्त्वबुद्धि न भवेत् )
शङ्का लोकोद्योतकरत्वधर्मतीर्धकरत्वविशिष्टानहतोऽहं कीर्तयिष्यामीत्येवास्तु 'जिनानि' ति विशेषणपदं निरर्थकमधिकं किमर्थ कथ्यते ? यतःपूर्वोक्त-लोकोद्योतकरत्व-धर्मतीर्थकरत्वरूपविशेषणद्वय-विशिष्टा ये, ते जिना एव भवन्ति नान्ये, अतोऽतिरिक्तं 'जिनानि' ति पदं वर्त्तते व्यावर्तकत्वेनेदं सफलं नैव, कथं सफलं स्यात् !
समाधानम् अत्रोच्यते. माऽभूत् कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्ययइत्यतस्तदपोहाय-'जिनानि' ति श्रूयते च कुनयदर्शने
"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥” इत्यादि, तन्नूनं ते न रागादिजेतारः (जिनाः) इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्कुरप्रभवो ? बीजाभावात्, तथाचान्येप्युक्तम्- .
“अज्ञानपांशुपिहितं, पुरातनं कर्म बीजमविनाशि । . तृष्णाजलाभिषिक्तं, मुञ्चति जन्मान्तर जन्तोः ॥ १॥ तथा