________________
८२
ललितविस्तरासंस्कृतटीका मनःपर्यायजिनाःछद्मस्थवीतरागाश्च, तन्मा भूतेष्वेव सम्प्रत्यय इति तह यदासार्थं लोकस्योद्योतकरानित्याद्यप्यदुष्टमिति, अपरस्त्वाह-अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अहंद्वयतिरेकेणापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त तहत इत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य नामाद्यनेकभेदत्वात् भावार्हत्संग्रहार्थत्वादिति, अपरस्त्वाह-केवलिन इति न वाच्यं, यथोदाहृततत्स्वरूपाणां अर्हतां केवलित्वे अव्यभिचारित्वात् , सति च व्यभिचारसम्भवे विशेषणोपादानसाफल्यात्, तथा च सम्भवे व्यभिचारस्य विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादोयमानमपि यथा कृष्णो भ्रमरः शुक्लो बलाहक इत्यादि, ऋते प्रयासात्कमर्थं पुष्णातीति, तस्मात्केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानात्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्ये इति नियमार्थत्वेन स्वरूपज्ञापनार्थमेवेदं विशेषणमित्यनवद्यं, न चैकान्ततो व्यभिचारसम्भवे एव विशेषणोपादानसाफल्यं, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने शिष्टोक्तिषु तत्प्रयोगदर्शनात् , तत्र उभयपदव्यभिचारे यथा-नीलोत्पलमिति, तथैकपदव्यभिचारे यथा-अब्द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा-परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टं, आह—यद्येवं केवलिन इत्येतावदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्याद्यपि न वाच्य मिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयो अन्येऽपि विद्यन्त एव केवलिनस्तन्मा भूत्तेष्वेव सम्प्रत्यय इति तत्प्रतिक्षेपाथै लोकस्योद्