________________
ललितविस्तरासंस्कृतटीका
शङ्कायद्येवं तर्हि 'धर्मतीर्थकरानि'त्येतावदेवास्तु 'लोकस्योद्योतकरानि'ति न वाच्यम्, यतो धर्मतीर्थकरा, लोकस्योद्योतकरा एव धर्मतीर्थकरेषु लोकस्योद्योतकरत्वस्य भावोऽर्थो वा गत एवातः 'धर्मतीर्थकरा' इति विशेषणमस्तु, अन्यविशेषणानि निष्प्रयोजनानि कथं न?
इह लोके येऽपि नद्यादिविषमस्थानेषु मुधिकया धर्मार्थभवतरणतीर्थकरणशीलास्तेऽपि धर्मतीर्थकरा एवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योदद्योतकरानप्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहियथोक्तप्रकारा जिनाः एव भवन्तीति, अत्रोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तदपोहायाह-जिनानिति, श्रूयते च कुनयदर्शने"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥” इत्यादि, तन्नूनं ते न रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्कुरप्रभवो ? बीजाभावात् , तथा चान्यैरप्युक्तम्"अज्ञानपांशुपिहितं, पुरातनं कर्मबोजमविनाशि ।
तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्करं जन्तोः ॥ १ ॥ तथा-दग्धे बोजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः। ___ कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥२॥ इत्यादि,
आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपि जिना एवोच्यन्ते, तद्यथा-श्रुतजिनाः अवधिजिनाः