________________
ललितविस्तरासंस्कृतटोका (८) 'अपि' इति अव्ययपदं वर्तमानचतुर्विंशतिगतान् ऋषभादीनमर्हताऽहतो नामानि गृहीत्वाऽहं स्तोष्ये, 'भावतस्तदन्यसमुच्चयार्थोऽपि शब्दः' अर्थाद् भरतवर्षभिन्नान्यक्षेत्रवर्तिनोऽन्यान् तीर्थङ्करान् नामानि दत्त्वा स्तोतुमशक्यत्वादपिशब्दद्वारा मनसि कृत्वा भावतः "भावतस्तदन्यसमुच्चयार्थ इति" भावतो-नामस्थापना-द्रव्याहत्परिहारेण, शुभाध्यवसायतो वा तदन्येषां, ऋषभादिव्यतिरिक्तानां ऐरवतमहाविदेहजानामर्हता सङ्ग्रहार्थः, तदुक्तं-"अविसद्दग्गहणा पुण एरवयमहाविदेहे य” अन्यक्षेत्रवर्तिनोऽथवा कालत्रयवर्तिनः सर्वानहतः भावतः स्तोष्ये इत्यर्थः, -एतानि पश्च पदानि विवेच्य, अथ प्रत्येकविशेषणोपन्यासस्य सार्थक्यचर्चा
अत्राह बादी-शङ्का-लोकस्योद्योतकरानित्येतावदेव साधु धर्मतीर्थकरानिति न वाच्यं, गतार्थत्वात् , तथाहि ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, अर्थात् प्रथमविशेषणं 'लोकस्योद्योतकरान्' एतावदेव साधु (निर्दोष-व्यभिचाररहित) 'धर्मतीर्थकरानि' ति द्वितीयं विशेषणं वक्तुं नार्हति. द्वितीयविशेषणस्यार्थोभावः प्रथमविशेषणेऽन्तर्गत एवेति. तथाहि ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति. अर्था'लोकस्योद्योतकरा' इत्येवं कथनेन 'धर्मतीर्थकरा' अर्हन्त एव भवन्तीति सम्यक्तया ज्ञायत एव यदि ये लोकोद्योतकरा भवेयुश्च धर्मतीर्थकरा न भवेयुस्तदा तेषु विशेषणमिदं व्यभिचरितं स्यात्तदा तद् व्यभिचारव्यवच्छेदाय 'धर्मतीर्थकरा' इति विशेषणं सफलं भवेत् , एतादृशं त्वत्र नास्त्येव किं न ?
समाधान-अत्रोच्यते इह लोकैकदेशेऽपि प्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्ते मा भूत्तदुद्द्योतकरेष्ववधि-विभङ्गज्ञानिष्वर्क-चन्द्रादिषु वा सम्प्रत्यय इत्यतस्तद् व्यवच्छेदार्थ 'धर्मतीर्थकरा' निति अर्थाद् इह-लोकोद्योतकरविशेषणव्याख्याने तु ग्रामस्यैकभागे-अमुकस्थले यथा ग्रामशब्दस्य व्यवहारोऽनुभूयते, तथा पञ्चास्तिकायात्मकलोकशब्दस्य प्रवृत्ति-व्यवहारेण लोकस्यैक--अमुकभागे (स्थले) प्रकाशकरा अवधिविभङ्गज्ञानिषु (अवधिज्ञानावरणीयकर्मणः क्षयोपशमादिहेतूनां सद्भावे, आत्मनो यो रूपिपदार्थविषयक-साक्षात्कार (प्रत्यक्ष) बोधः, अवधिज्ञानं कथ्यतेऽथवा केवलरूपिपदार्थविषयकसाक्षात्कारे साधनभूतात्मनो व्यापारविशेषः, 'अवधिज्ञानं' किञ्च मिथ्यादृष्टेरवधिज्ञानं, भा:-विकल्पाः, बिरुद्धविकल्पा-विभङ्गा यत्र भवन्ति तद् विभङ्गज्ञानं, अथवा अवधिज्ञानस्य विपरीतो भेदः 'विभङ्गज्ञानं कथ्यते.)
अथवाऽर्कचन्द्रादिषु यत् किश्चिद् (द्रव्यभाव) उद्योतकरत्वेन सर्वलोकोद्योतकरस्याऽर्हतः सम्प्रत्ययः (विश्वासः) स्यादित्यतस्तद्, व्यवच्छेदार्थ धर्मतीर्थकरानिति किञ्चित्किञ्चिदुद्योतकरा धर्मतीर्थकरा न भवन्ति, अवधिविभङ्गज्ञानि-आदि-निष्ठ. व्यभिचारवारणाय 'धर्मतीर्थकरा' इति विशेषणं सार्थकमिति.