________________
ललितविस्तराखटीका 'प्रसन्ना भवन्तु ' प्रार्थनारूपार्थग्रहणेन प्रस्तुतस्तुतिवाक्यं लक्षणहीन भविष्यति, यतःस्तुतिलक्षणमिदं, ये स्तोतव्यास्तेषामीदृशी स्तुतिःकार्या, येन स्तुतिवचनेन, स्तुत्येषु गुणस्थानेषु दोषारोपणं न भाव्यम् , येन वचसा यदि दोषारोपणस्यापत्तिः, निःसरेत्तदा स्तुतिवर्चास लक्षणमुल्लङ्घितमेव,
____ प्रस्तुते प्रसादविषयकप्रार्थनावचनमते, एतादृश्यर्थापत्ति निःसरति यद् ‘भगवान् मयि प्रसीदतु, अर्थाद् भगवान् प्रसादाप्रसादरहितोऽस्ति अथवाऽप्रसन्नो भवत्यपि' एतादृशानुचितवस्त्वारोपविषयकार्थापत्ति भवेत् , एतादृशप्रार्थनाद्वारा, अविचारितं कथितं, प्रार्थनापद्धति विचारणीयाऽत्र.
___ आर्याणामेतादृशी वचनपद्धति न भाव्या, यत्रानुचित-दोषारोपणं भवेत् यतः, अत्र वीतरागप्रार्थनाकरणविषये प्रभुनिष्ठ-वीतरागतातत्त्वं वाधते, अनार्याणां तु तत्त्वा-तत्त्वविषयक - विवेको न भवति.
अत्र तीर्थंकरा मयि प्रसीदन्तु' इति वचनं महार्यशिरोमणि-गणधराणां विद्यते, एते पुरुषोत्तमा वीतरागता-तत्त्वबाधकं वचो न वदन्त्येव.
किञ्च वचनकौशलोपेतगम्योऽयं मार्गः ।
अप्रयोजनसप्रयोजनचिन्तायां तु 'प्रसीदन्तु' इति वाक्यं प्रार्थनापरकं नास्ति, अत एव 'तीर्थकरा मयि प्रसीदन्तु ' इति वाक्योपन्यासो न्याय्यः ( न्याययुक्तः ) विद्यते यतो भगवत्स्तुतिरूपं वचनमस्ति.
('निष्कामस्य निरर्थकत्वाभावात् , सप्रयोजने स्तुत्यस्य तथाऽभावेऽपि स्तोतुस्तथाफलदर्शनात्) उक्तं च="क्षीणक्लेशा एते नहि प्रेसीदन्ति, न स्तवोऽपि वृथा।
तत्स्वभावभाव ( सद्भाव ) विशुद्धःप्रयोजनं कर्मविगम इति ॥" (यं वयं प्रसीदन्तु ' एवं कथयामः, स जिनो भगवान् वीतरागोऽस्ति, अर्थात्ततः स्तोतुरुपरि प्रसन्नो न भवति, तथा निन्दकस्योपरि, अप्रसन्नो न भवति, तथाऽपि स्तोतुश्च स्तुतिफलं प्राप्नोति, निन्दकस्य निन्दाफलं प्राप्नोति, यतः प्रत्येकक्रियाफलमवश्यं भवत्येव. किञ्च यथा चिंतामणितो मंत्रादिकरणतः शुभेच्छुकस्य शुभं फलं भवति, अशुभेच्छुकस्याऽशुभं फलं भवति, तथाऽत्र स्तुतितः स्तुतिफलं भवति,)
(१) अर्थाद् रागादिकर्मादिरूपक्लेशरहिताः, एते-वीतरागा न यथा प्रसादपरायणा भवन्ति, तथा भगवतां स्तुतिरपि न वृथा-निष्फला भवति, यतः स्तुतिद्वारा तेषु स्वभाव