________________
५५
ललितविस्तगसंस्कृतटीका
शङ्काः= नमो अरिहन्ताण' एतपनमस्कारमभिधाय किमिति तत्कल्पग्रहणं न करोति ? येन तत्कायोत्सर्गभङ्गो न भवति ?
समाधानं उच्यते, नात्र नमस्कारेण पारणमित्येतावदेवाविशिष्ट-सामान्यं कायोत्सर्गमानं ( प्रतिज्ञा ) क्रियते किन्तु यो यत्परिमाणो ( यावान् ) यत्र कायोत्सर्ग उक्तः ( अष्टोश्वास-पञ्चविंशतिश्वासोच्छवासापरिमाणः कायोत्सर्गः कथितः ) तावतः कायोत्सर्गपरिमाणस्य समाप्त्यनन्तरं गुरोः पारणानन्तरं 'नमो अरिहंताणं' इत्येतत्पदमकथयित्वा पारयेत्तदा कायोत्सर्गभङ्गः, तथा यो याबान् यत्र कायोत्सर्ग उक्तः तत्र तावतः कायोत्सर्गस्यासमाप्तत्वे, 'नमो अरिहंताण'मिति पदं पठेत्तदाऽपि कायोत्सर्गभङ्गः, स च नात्र भवतीति-स कायोत्सर्गभङ्गः, अत्र-एवमादिभिरिति पदेनाऽऽकारादीनां सद्भावे न भवतीति.
न चैतत्स्वमनीषिक यैवोच्यते-आकाराद्येतत् सर्व स्वबुद्धयैव न कथ्यते. यतः उक्तमार्च-ऋषिप्रणीतशास्त्रे ( आवश्यकनियुक्त्यादौ ) ." अगणी उ छिदिज्ज व बोहिय खोभाइ दीहऽक्को वा ।
आगारेहिं अभग्गो, उस्सग्गो एवमादीहिं ॥" 'अगणीओ छिन्देज्जवेत्यादि ' अमि र्वा स्पृशेत् , स्वस्य कायोत्सर्गालम्बनस्य च गुर्वादेरन्तरालभुवं कश्चिदवच्छिन्द्यात् , बोहिका मानुषचौरा:. क्षोभः स्वराष्टपरराष्टकृतः, आदिशब्दाद् गृहप्रदीपनकग्रहः, 'दीयो ' दीर्घकायः सर्पादिदृष्टो वा तेनैव ततस्तेषां प्रतिविधानेऽपि न कायोत्सर्गभङ्गः इति वा भावः । आकार-शब्दस्य व्युत्पत्तिः आ क्रियन्त इत्याकारा:-मर्यादया क्रियन्ते, मर्यादया गृह्यन्ते इत्याकारा इति भावना-व्युत्पत्तिद्वारा विचारणा, तदनन्तरं तात्पर्यार्थी दश्यते, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, अर्थात् कायोत्सर्गेऽपबादस्य ये प्रकारास्ते सर्वे आकाश उच्यते तैराकारैः-अपवादप्रकारे विद्यमानै वर्तमानैरपि न भन्नोऽभग्नः, भग्नः-सर्वथा नाशितः-विनाशं प्राप्तः, न विराधितोऽविराधितः, विराधितो-देशभग्नोऽभिधीयते, देशभग्नः-अमुकांशतः खण्डितः, तैराकारैः 'मे' मम कायोत्सर्गः ( सर्वथाऽथवांशतः ) अभग्नोऽविराधितो भूयात् ।
( बलवदनिष्टाननुबन्धित्वविशिष्टकृति - साध्यत्वविशिष्टसमग्रागारभिन्नसर्वप्रकारावच्छिन्नकायव्यापारत्यागरूपकायोत्सर्ग-भवनानुकूलकृतिमान् कायोत्सर्ग-विधायी पुरुष इति शाब्दयोधः)
-अथ षोडशाकारान् , अतिचारजातित्वेन परिज्ञाप्य सहजादिषु पंचसु विभागेषु अवतारयन्ति शास्त्रकारा: