________________
५६
ललितविस्तरासंस्कृतटीका ___ तत्रानेन सहजास्तथा अल्पेतरनिमित्ता आगन्तगे नियमभाविनश्चाल्पाः बाह्यनिबन्धना बाह्याश्चातिचारजातय इत्युक्तं भवति, उच्छ्वासनिः श्वासग्रहणात्सहजाः, सचित्तदेहप्रतिबद्धत्वात् , कासितक्षुतजृम्भितग्रहणात्त्वल्पनिमित्ता आगन्तवः, स्वल्पपवनक्षोभादेस्तद्भावात् , उद्गारवातनिसर्गभ्रमिपित्तमूर्छाग्रहणात्पुनर्बहुनिमित्ता आगन्तव एव, महाजीर्णादेस्तदुपपत्तेः, सूक्ष्मा.
खेलदृष्टिसञ्चारग्रहणाच्च नियमभाविनोऽल्पाः, पुरुषमात्रे सम्भवात् , एवमायुपलक्षितग्रहणाच्च बाह्यनिबन्धना बाह्यास्तदद्वारेण प्रसूतेरिति, उपाधिशुद्धं परलोकानुष्ठानं निःश्रेयसनिबन्धनमिति ज्ञापनार्थममीषामिहोपन्यासः, उक्तं चागमे" वयभंगे गुरुदोसो, थेवस्सवि पालणा गुणकरी उ। गुरुलाघवं च णेयं, धम्मंमि अओ उ आगारा ॥१॥” इति,
एतेनार्हच्चैत्यवन्दनायोद्यतस्योच्छ्वासादिसापेक्षत्वमशोभनम् , अभक्तेः, न हि भक्तिनिर्भरस्य कचिदपेक्षा युज्यत इत्येतदपि प्रत्युक्तं, उक्तवदभक्त्ययोगात् , तथाहि-का खल्वत्रापेक्षाः ? , अभिष्वङ्गाभावात् , आगमप्रामाण्याद्, उक्तं च" उस्सासं न निरंभइ, आभिग्गहिओवि किमुय चिट्टाए ?। सज्जमरणं णिरोहे, सुहुमुस्सासं तु जयणाए ॥१॥"
न च मरणमविधिना प्रशस्यत इति, अर्थहानेः, शुभभावनाद्ययोगात् स्वप्राणातिपातप्रसङ्गात् , तस्य चाविधिना निषेधात्, उक्तं च“ सवत्थ सञ्जमं सञ्जमाओ अप्पाणमेव रक्खिज्जा। मुच्चइ अइवायाओ, पुणो विसोही न याविरई ॥१॥"