________________
ललितविस्तरासंस्कृतटीका मनोवाक्कायव्यापारवान् जीवोऽस्ति, अतः श्लेष्मसंचारादि, विद्यते, यदि वीर्यजन्यमनोवाक्कायव्यापारवान् जीवो नास्ति, तदा श्लेष्मसञ्चारादि न भवेत् , ततः लेप्मसञ्चारादीनां समावेशः, वीर्यसयोगिसद्रव्यरूपजीवस्य व्यापारविशेषे भवति, ताशवीर्यजन्य-मनोवचनकाय व्यापारवता जीवेन श्लेष्मसञ्चारादि-कायव्यापारा, जन्यन्ते प्रकटी भूयन्ते.
(१२) सूक्ष्मैष्टिसञ्चारैनिमेषादिभिः सूक्ष्मैश्चक्षुषो निमेषोन्मेषादिः-(निमीलनोन्मीलनादिः) सूक्ष्मसंचाररूप-क्रियाव्यापारभिन्नान्यकायव्यापारत्यागवान् कायोत्सर्गे तिष्ठति, स्थिरो भवति. ( अस्थिरकर्मनामजन्योऽयं कथं नाकारः ?) अथ 'अन्नत्थसूत्रकथिताकारेभ्यो बहिःस्था अपि केचिदाकारा' 'एवमादिभिः' इति पदेन सूचितास्तैः सर्वैराकारैरपि कायोत्सर्गस्य भङ्गो न भवेदतः 'हुज्ज मे काउसम्गो' पर्यन्तानि षट्पदानि कथितानि, तत्षट्पदवती षष्ठी 'आगन्तुकाकारनाम संपद् ' वर्ततेऽतस्तां सम्पदं वर्णयति.
" एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउसग्गोति" एवं उच्छव. सितनिःश्वसितकासितक्षुत-जम्भितोद्दारितवातनिःसर्गभ्रमलीपित्तमूर्छा-सूक्ष्मानसञ्चारसूक्ष्मश्लेष्मसञ्चारसूक्ष्मदृष्टि सञ्चाररूपाकार दशभिः कायोत्सर्गरक्षितैरपवादैः कायोत्सर्गभङ्गो न स्याद् ( यदि एतानाकारान्न रक्षित्वा कायोत्सर्ग कुर्यात्तदा नैसर्गिकरीत्या जायमानाभिरेताभि दिशक्रियाभिः सर्वथा निष्क्रियकायोत्सर्गभङ्ग एव स्यात् )
एत आकारास्तु एक-स्थाने ऊद्धर्व स्थित्यपेक्षया सन्ति. परन्तु कायोत्सर्गस्य, नियतस्थानं विमुच्या ऽन्यत्र स्थानगमनेऽपि 'कायोत्सर्गः' अखण्डो गण्येत तादृशानपि मुख्यान् चतुर आकारान् ( अग्नि-पञ्चेन्द्रियच्छिन्दन बोधिक-क्षोभादि-दंशरूपान् , आ. नि. गा. १५, १६, (१) अमिस्पर्श (२) उन्दुरादि पञ्चेन्द्रिय जीवानां छिन्दनं ( अन्तहायनं ) (३) चौरनुपादिरागत्य क्षोभरूपान्तरायं कुर्यात् (४) सर्पादिभये उपस्थिते, अन्यत्र गमनेऽपि न कायोत्सर्गे भङ्गः ) 'एवमादिभिः' पदद्वारा दर्शयति, एवमादिभिरित्यादिशब्दाद् यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः
(विद्युतो दीपकस्य वाऽग्ने ज्योतिः-प्रकाशः शरीरोपरि यदा पतेत्तदा प्रकाशस्याऽमिजीवाः शरीरस्पर्शेन नश्यन्ति, तद्रक्षार्थ वर्तमानकायोत्सर्गे प्रावरणाय कल्पस्य ( औणिककम्बलादेः ) ग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः, ) ( अमेः शुद्ध-काचादि रूपान्तररहिते प्रकाशे तथा काचेभ्यो भित्त्वाऽऽगच्छत् प्रकाशे युक्तिवादेनाऽग्निजीवानामभावं वर्तमानकाले केचिन्मन्यन्ते, परन्तु मार्गानुयायिभिराज्ञायां युक्तिवादं पुरस्कृत्य प्रतिकूल-प्रवृत्ति नाचरणीयेति महाश्रेयस्करं)