________________
ललितविस्तरासंस्कृत टीका
(२) 'नीससिएण'मिति=मुखनासिकाभ्यामधः श्वसितं निःश्वसितं तेन, ( अशक्यपरिहारावाकारावेतौ मुक्तौ )
(३) 'खासिएण'मिति-कासितेन कासितं प्रतीतं. (४) 'छीएणमिति-क्षुतेन, इदमपि प्रतीतमेव, (५) 'जंभाइएण'मिति-जम्भितेन, विवृतवदनस्य प्रबल-पवन-निर्गमो जम्भितमुच्यते, (६) 'उड्डुएण' मिति उद्गारितं प्रतीतं तेन, (७) 'वायनिसग्गेण मिति-अधिष्टानेन पवननिर्गमो, वातनिसग्गों भण्यते तेन, (८) 'भमलीए'त्ति-भ्रमत्या, इयं चाऽऽकस्मिकी शरीरभिः प्रतीतैव, (९) 'पित्तमुच्छाए'त्ति-पित्तमूर्छया पित्तप्रावल्यान्मनाङ्मूर्छा भवति ।
अथ- सूक्ष्मै दृष्टिसंचारै रिति पर्य-तानि बहुवचनप्रयोगान्तत्वादेतानि त्रीणि पदानि चैत्यस्तवस्य पश्चमी-बहुवचनाकार-संपदं वर्णयति=
(१०) 'सुहुमेहि अङ्ग-सञ्चालेहि'ति सूक्ष्मैः अगसञ्चारैः लक्ष्यालक्ष्यैर्गात्रचलनप्रकारे रोमोद्गमादिभिः,
(११) सुहुमेहिं खेल सञ्चालेहि'ति सूक्ष्मैः खेलसञ्चारै यस्माद्वीर्यसयोगिसव्यतया ते लेप्मसञ्चारा
(“ भ. ५ श. ४ उ. 'वीरियसजोगदव्वयाए'ति वर्याःतरायक्ष्यप्रभवा शक्तिः, तत्प्रधानं सयोगं मानसादिव्यापार-युक्तं यत्सद्-विद्यमानं द्रव्यं तत्तथा वीर्यसद्भावेऽपि जीवद्रव्यस्य योगान् विना चलनं न स्यादिति सयोगशब्देन सद् द्रव्यं विशेषितं, सदिति विशेषणं च तस्य सदा सत्ताऽवधारणार्थ, अथवा स्वमात्मा तद्रूपं द्रव्यं स्वद्रव्यं ततः कर्मधारयः, अथवा वीर्यप्रधानः, सयोगो योगवान् , वीर्यसयोगः, सचासौ सद्व्यश्च, मनः प्रभृतिवर्गणायुक्तो, वीर्यस्योगसदद्रत्यरतस्य, भावस्तत्ता, तया, हेतुभूतया 'चलाई' ति अस्थिराणि, ‘उवकरणाई'ति अगानि " )
-दीनां सूक्ष्मतया वीर्यसयोगिसद्व्यरूपजीवव्यापारविशेषे समावेशो भवतीति, अर्थाद् वीर्यसयोगिसद्व्यते'ति वीर्येण-वीर्यान्तराय-कर्मक्षयक्षयोपशम-प्रभवेणात्मशक्ति-विशेषेण, सयोगीनि-सचेष्टानि, सन्ति विद्यमानानि, द्रव्याणि मनोवाक्कायतया परिणत-पुद्गलस्कन्धलक्षणानि यस्य स तथा तद्भावस्तत्ता तया, अथवा वीर्येण-उक्तलक्षणेन सयोगिनो-मनोवाक्काय व्यापारवतः सतो जीवस्य द्रव्यता-खेलसञ्चारादीन् प्रति हेतुभावस्तयेति ॥ यदि वीर्यजन्य
जानि")