________________
ललितविस्तरासंस्कृतटीका "उड्डुएणंति” उद्गारितं प्रतीतं तेन “वायनिसग्गेणंति" अधिठानेन पवननिर्गमो वातनिसग्गो भण्यते तेन भमलीएत्ति" भ्रमल्या इयं चाऽऽकस्मिकी शरीरभ्रमिः प्रतीतैव "पित्तमुच्छाएत्ति” पित्तमूर्च्छया पित्तप्राबल्यान्मनाङ् मूर्छा भवति “सुहुमेहिं अङ्गसञ्चालेहिंति" सूक्ष्मैः अङ्गसञ्चारैः लक्ष्यालक्ष्यैर्गात्रविचलनप्रकारै रोमोद्मादिभिः, “ सुहुमेहिं खेलसञ्चाले हिंति" सूक्ष्मैःखेलसञ्चारैः यस्माहीयसयोगिसद्व्यतया ते खल्वन्तभवन्ति, “ सुहुमेहिं दिटिसञ्चालेहिन्ति” सूक्ष्मदृष्टिसञ्चारैः निमेषादिभिः “ एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गोत्ति" एवमादिभिरित्यादिशब्दाद् यदा ज्योतिः स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः, आह-नमस्कारमभिधाय किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारेण पारणमित्येतावदेव अविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तः तत ऊर्ध्वं समाप्तेऽपि तस्मिन् नमस्कारमपठतो भङ्गः, अपरिसमाप्तेऽपि पठतो भङ्ग एव, स चात्र न भवतीति, न चैतत्स्वमनीषिकयैवोच्यते, यत उक्तमा___“ अगणी उ छिंदिज व, बोहियखोभाइ दीहडको वा ।
आगारेहिँ अभग्गो, उसस्ग्गो एवमादीहिं ॥१॥" __ आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः, तैः-आकारैर्विद्यमानैरपि, न भग्नोऽभग्नः भग्नः-सर्वथा नाशितः, न विराधितोऽविराधितः विराधितो-देशभग्नोऽभिधीयते, भूयात् 'मे' मम कायोत्सर्गः ।