________________
२०
ललितविस्तरासंस्कृत टीका
सज्जनानां शोच्यं, मिथ्यात्वनामकग्रहप्रथिलः नरेन्द्रादपि अधिकं-महान्तं निर्मलं स्वात्मानं पश्यति"
मोहविकारसमेतः अकृतार्थमेवात्मानं एवं ग्रहप्रकारेण, तस्य-कृतार्थस्य
व्यत्ययोऽकृतार्थस्तस्य लिङ्गानि-उच्छङ्खलप्रवृत्त्यादीनि, तेषु रतं परायणं, स एव ग्रहो मोहविकारो ग्रहस्तस्यावेशाद्-उद्रेकात् , “कृतार्थ पश्यति इत्यादि" तस्मात्प्रेक्षावन्तमङ्गीकृत्यैतत् सूत्रं सफलं प्रत्येतव्यमिति । कायोत्सगै आकारा दयन्ते. ___ठामि काउसागं' एतत् पाठेन 'कायच्यापारस्य त्यागरूपे कायोत्सर्गे तिष्ठामि' इति कथनेन कायव्यापाराकरणप्रतिज्ञा गृहीता, अम्यां प्रतिज्ञायां शरीरस्याऽन्यः कश्चिद् व्यापारो भवेत्तदा प्रतिज्ञाभङ्गो भवेत् , तदर्थे तत्प्रतिज्ञायां-कायोत्सर्गे आकारा रक्षिताश्च ते, आकारा एतेन 'अन्त्य उससिएणं' पाठेन विज्ञापिता एतेनाकारनिकरेण कायोत्सर्गभङ्गो न स्याच्च 'के ते आकाराः' इति तद् विज्ञाय, ततः कायोत्सर्गोऽभङ्गोऽविराधितो भवतु इति विषयं दर्शयितुं 'अन्नत्थ ऊससिएणं' सूत्रमारभते शास्त्रकार :
अण्णत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहुमेहिं अंगसंचालहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिहिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गी अविराहिओ हुज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥
किं सर्वथा तिष्ठति कायोत्सर्गमुत नेति, आह-'अन्नत्य ऊससिएणमित्यादि " अन्यत्रोच्छ्वसितेन-उच्छ्वसितं मुक्त्वा योऽन्यो व्यापारस्तेनाव्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रोई प्रबलं वा श्वसितमुच्छ्वसितं तेन " नीससिएणमिति" अधः श्वसितं निःश्वसितं तेन, “खासिएणंति” कासितेन कासितं प्रतीतं. “छीएणंति" क्षुतेन इदमपि प्रतीतमेव “जंभाइएणंति" जृम्भितेन विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते