________________
ललितविस्तरा संस्कृत टीका
स्वहिताय ध्यानादिक्रियाऽभिलाषाः, अधिकाधिकगुणलाभार्थे स्पर्धारूपा अपि स्वहा, अथवा गुणादिप्रवेशायोत्कटजिज्ञासा, मोक्षदायित्वेन सदनुष्ठानलक्षणम् .
(६) तज्ज्ञसेवा = तत्त्वज्ञातुरथवा सदनुष्ठान- मर्मण: ज्ञातुः पुरुषस्य सेवा ( आराधना ) सदनुष्ठानस्य लक्षणम् तत्त्ववेत्तुर्गुरोर्भक्तिप्रभावेणैष जीवः प्रगतिपथेऽयतो वर्धते, तथा गुरुसमागमेन समापत्तिनामकदशाविशेषे तथा तद्भेदेषु लीन - भवनेन अभ्यस्ततया ध्यानद्वारा तीर्थंकरं पश्यति, एतद्दर्शनं हि मोक्षेकमसाधारणं कारणं भवति, किञ्च गुरून् प्रति भक्ति बहुमानादरातिशयेन तथा तदादेशप्रमाणेन वर्त्तनेनावश्यं कल्याणं भवति, तथाऽत्र परत्र हितकारी तथा यः . पुण्यानुबन्धिपुण्यबन्धोऽस्ति स एव गुरुभक्ति - साध्योऽस्ति गुरोः साहाय्यं विनोत्तरोत्तर वृद्धि र्न भवत्येवेति विशिष्टभावप्रयोगेण तज्ज्ञसेवा सदनुष्ठानलक्षणम् .
४९
6 च ' शब्देन ' तज्ज्ञानुग्रहः ' तत्त्वज्ञातृ - पुरुषाणां कृपारूप - प्रसादोऽपि सदनुष्ठान - लक्षणं ज्ञेयम्, आदरादीनां सदनुष्ठानत्वेन कथनस्य कारणं कथ्यते, शृणुत तावत्, अनुबन्ध - सारत्वेन सदनुष्ठानं कथ्यते, उत्तरोत्तर - शुभानुबन्ध - परम्परा, प्रवर्त्तमाना भवति.
उत्तरोत्तर - पुण्यानुबन्धि- पुण्ये मात्रा वर्धमाना भवति, सदनुष्ठानलक्षणादरादिभिः, तत्तद्भाव - परिणाम नर्म व्यजननद्वारा, श्रद्धादिरूपाभिलषितार्थस्य प्राप्तिर्भवति, यथा क्रमात् सम्यग् हेतुसामग्रीयोगतः यथेक्षोः शर्कराप्तिः, एव आदरादिभिः श्रद्धादयो ज्ञेयाः, उक्तं च परैरपीत्यादि ।
मृषावादः कस्य ? - यदृच्छया ( स्वाच्छन्द्येन ) प्रवृत्तिमतः, वेषमात्रधारिणः नटादिवदनाटककारककल्पस्य ( वेषमात्रं भजन्ते बाह्यतो नत्वन्तः करणेन ) गुणिनिष्ठगुणं प्रति द्वेषकारकस्या प्रेक्षावतस्तु ( बुद्धि = गीतार्थतारहितस्य ) मृषावाद एव यतोऽनर्थस्य योगो भवति ( बलवदनिष्टानुबंधिरूपयोगः )
C
' तत्परितोषेत्यादि ' तेन मृषावादेन मिथ्याकायोत्सर्गरूपेण परितोषः = कृतार्थता रूपः ( अहं कुतार्थः सञ्जातः इति संतोष तृप्तिः ) अन्यच्च ' तदन्यजनाधःकारी ' यो लोकस्तस्य नीचत्वकारी 'मिथ्यात्वग्रहविकारः ' मिथ्यात्वमेव उन्मादरूपतया ग्रहो - दोषविशेषस्तस्य विकारः - मिथ्यापरिणामः ( " एवमिति " एवं ग्रहप्रकारेण, " तद्व्यत्ययलिङ्गरतमिति " तस्य-कृतार्थस्य व्यत्ययोऽकृतार्थस्तस्य लिङ्गानि - उच्छृङ्खल - प्रवृत्त्यादीनि तेषु रतं )
एतेन मिथ्याकायोत्सर्गरूपमृषावादजन्यपरितोषस्य स्वरूपं ज्ञेयम् । उक्तमन्यैरपिदण्डी ( दण्डधरः ) खण्डनिवसनं ( खण्डशो वस्त्रधारकः ) भस्मादिना विभूषितं सतां -
८८
७