SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ४८ ललितविस्तरा संस्कृत टीका अप्रेक्षावतस्तु यदृच्छाप्रवृत्तेः नटादिकल्पस्य गुणद्वेषिणो मृषावाद एव, अनर्थयोगात्, तत्परितोषस्तु तदन्यजनाधः कारी मिथ्यात्वग्रहविकार:, यथोक्तमन्यैः " दण्डीखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं, ग्रही नरेन्द्रादपि ह्यधिकम् ॥ १ ॥ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्वयत्ययलिङ्गरतं, कृतार्थमिति तद्ग्रहावेशात् ||२|| इत्यादि " । तस्मात्प्रेक्षावन्तमङ्गीकृत्यैतत्सूत्रं सफलं प्रत्येतव्यमिति । " 22 पं०...“ परैरपि ” मुमुक्षुभिः किमुक्तमित्याह - " आदरेत्यादिश्लोकद्वयं " सुगमं, नवरम् " अविघ्न इति ” सदनुष्ठाननिहतक्लिष्टकर्म्मतया सर्व्वत्र कृत्ये विघ्न्नाभावः, “तत्परितोषेत्यादि तेन - मृषावादेन मिथ्याकायोत्सर्गरूपेण परितोषः - कृतार्थतारूपस्तुः - पुनरर्थे " तदन्यजनाधःकारी” सम्यक्कायोत्सर्गकारिलोकनीचत्वविधायी " मिध्यात्वग्रहविकारो” मिथ्यात्वमेव उन्मादरूपतया ग्रहो - दोषविशेषस्तस्य विकार इति " एवमिति " ग्रहप्रकारेण " तद्वचत्ययलिङ्गरतमिति ' तस्य - कृतार्थस्य व्यत्ययुः, अकृतार्थस्तस्य लिङ्गानि - उच्छृङ्खल प्रवृत्त्यादीनि तेषुर तं, " तद्द्महा वेशादिति" स एव ग्रहो मोहविकारो ग्रहस्तस्या वेशाद् - उद्रेकात् ।। "" टी.... (१) आदर = इष्टादिक्रियां प्रत्यादरः - यत्नातिशयः, यदिष्टक्रियानुष्ठानं क्रियते, - तद् बहुमानपूर्वमत्यन्तादरेण - यत्नातिशयेन क्रियते, तत्सदनुष्ठानलक्षणं, सोपयोगं प्रेमातिशयेन क्रियाकरणं तत्सदनुष्ठानं सूचयति. (२) करणे प्रीतिः = क्रियां प्रति सान्तरङ्गः स्नेहः स सदनुष्ठानलक्षणं. (३) अविघ्नः सदनुष्ठान निहतक्लिष्टकर्मतया सर्वत्र कृत्ये विघ्नात्यन्ताभावः सदनुष्ठानलक्षणम्. (४) सम्पदागमः=आभ्यन्तरज्ञानादिसम्पदामागमनं = आगमः सदनुष्ठानलक्षणम्, अर्थात् कायोत्सर्गादिधार्मिकानुष्ठानानि प्रति जीवस्य यदा बहुमानं भवति तदा स स्वस्य सर्वस्व - समर्पणं कुर्व्वन्नपि पृष्ठे न पश्यति एवं श्रद्धापूर्वं धर्म्यानुष्ठानं कर्त्तुं व्यसनं पातनीयमत एतस्य जीवस्य नानाविधा लाभाः - फलानि भवन्ति, इति सम्पदागमः . (५) जिज्ञासा=तत्तत्क्रिया सत्कं ज्ञानं प्राप्तुं तीब्रेच्छा, सा सदनुष्ठानलक्षणम्, सर्वे मौद्गलिकाभिलाषाः, तारतम्यवन्तः, स्पर्धापूर्विका अपि चातुर्गतिक – संसारे भ्रमयन्ति, परन्तु
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy