________________
ललितविस्तरासंस्कृतटीका चेइयाणमिति पदादारभ्य ठामि काउसगं" पर्यन्तं पाठरूपेणोच्चारणं) मृषावादः, को वा किमाहेति, यतो वस्त्वेतन्निश्चित्तमेव यत्र पुरुषे श्रद्धादिधर्माभावोऽस्त्यतः तस्यैवं कथनं मृषावादः कथं न ?
समाधानम् युष्मदीयं कथन सत्यमस्ति यतः श्रद्धादिरहितस्य सूत्रोच्चारणं मृषावादरूपमिति-'इत्थमेवैतदिति तन्त्रज्ञाः (शास्त्रज्ञाः) कथयन्ति, परन्तु श्रद्धादिविकलः प्रेक्षावान् , एवं नाभिधत्ते यतस्तस्मिन् प्रेक्षावति, आलोचित-कारित्वं सुतरां वर्तते.
शङ्का कदाचित्, श्रद्धादिविकलः प्रेक्षावानपि, एवमभिदधत् कथं दृश्यते ?
समाधानम् एते-श्रद्धादयः (१) मन्दभेदवन्तः-मन्दो मृदुः (जघन्यकोटिकः) तद्वन्तः (२) तीव्र:-प्रकृष्टः ( उत्कृष्टकोटिकः ) तभेदवन्तः, (३) आदिशब्दतः-तदुभयमध्यवर्ती मध्यमः (मध्यमकोटिकः) तभेदवन्तः, श्रद्धादयः ।
'तथादरादिलिना:-तेन प्रकारेण ये, आदरादयो वक्ष्यमाणास्ते एव लिङ्ग-गमकं येषां ते तथा ।
___(लिङ्गशब्दव्युत्पत्तिस्तु व्याप्तिवलेन लीनमर्थ गमयतीति लिङ्गम् ( सि. च. २ पृ. २५xगौ. वृ.। अथवा लिङ्ग्यते गम्यतेऽनेनार्थः इति लिङ्गम् (न्या. विन्दु. पं. २ पृ. २१)
___ (१) जघन्यकोटिक (मन्द) श्रद्धादेनिर्णयः ( परीक्षा) जघन्यकोटिक ( मन्द) आदरादिलिङ्गेन-गमकेन ज्ञायतेऽनुमीयते.
(२) मध्यमकोटिक-श्रद्धादे-निर्णयो मध्यमकोटिकादरादिलिङ्गेन-हेतुना ज्ञायते.
(३) उत्कृष्टकोटिकश्रद्धादेः परीक्षा, उत्कृष्टकोटिकादरादि-गमकेन गम्यतेऽर्थात् प्रेक्षावान् पुरुषः सर्वथा श्रद्धादिराहित्यवान् न भवति, कदाचित् सूत्रमनुच्चारयन् सन्, अर्थान्मन्दादरादि दृष्ट्वा कदाचिदेवं कथ्यते, एष 'श्रद्धादिविकल: ' परन्तु तत्र सर्वथा श्रद्धादिविरहो नास्ति. परन्तु मन्दादरादि-सत्त्वान्-मन्दश्रद्धादि वर्तते एवं ज्ञेयं.
शङ्का श्रद्धादीन् प्रति आदरादीनां लिङ्गत्वं-गमकत्वं कथं सिद्धं स्यात् ! ___समाधानम् श्रद्धादिविरहवति पुरुषे, आदरादिविरहो दृश्यते, अर्थाद् यत्र श्रद्धादिविरहोऽस्ति, तत्रादरादिविरहोऽस्ति, यत्र श्रद्धादिसद्भावोऽस्ति, तत्रादरादिसद्भावोऽस्ति, इत्येवं ज्ञानं भवति, तथा च श्रद्धादेरादरादि, कारणत्वेन लिङ्गं कथ्यते, यदा श्रद्धादि, कार्य सदाऽऽदरादि, तस्य कारणम्, आदरादिसत्तायां श्रद्धादेःसत्ता, आदरादेरसत्तायां श्रद्धादेरसत्ता, अर्थादन्वयव्यतिरेकाभ्यां श्रद्धादिकार्य प्रति, आदरादिकारणमस्ति-एवं कार्यकारणभावो विज्ञेयः ।